________________
चूर्णिभाष्यावन्त्रिः उ.६ सू. १४-१७
मातग्रामप्रकरणम् १६५ अत्र शिष्यः पृच्छति-हे गुरो। भगवता मैथुनसेवनेच्छया साधूनां पत्रलेखनं निषिद्धं तेनाऽन्यकार्यार्थ पत्रलेखनं साधूनां कल्पते इति सिद्धम् । आचार्यः प्राह-हे शिष्य ! साधूनां कुत्रापि पत्रादिलेखनं न कल्पते शास्त्रे तस्य निषेधात् । पुनः शिष्यः पृच्छति-हे गुरो ! शास्त्रे तु मैथुनार्थमेव लेखनं प्रतिषिद्धं दृश्यते तदा कथमेवं भवान् कुत्रापि पत्रलेखनं निषेधयति ? । आचार्य प्राहहे शिष्य ! शास्त्रे मैथुनाथ यो निषेधः कृतः तस्योपलक्षणत्वात् सामान्यस्यापि निषेधः सूचितः, साधूनां नवकोटेः प्रत्याख्यानात् पत्रादिलिखने नवकोटिविराधनस्यावश्यम्भावात् ॥सू० १३॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठंवा सोयंतं वा भल्लायएण उप्पाएइ उप्पाएतं वा साइज्जइ ।। सू०१४॥
छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिक्षया पोपान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा भल्लातकेन उत्पादयति उत्पादयन्तं वा स्वदते ॥सू० १४॥
चूर्णी-जे भिक्खू माउग्गामस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया 'पोसतं वा' पोषान्तं वा-सेवनाद् यः पुष्यते पुष्टो भवति स पोषः, पोषयति मैथुनार्थिनं यः स पोषः मृगीपदं योनिरित्यर्थः, तस्य अन्तम् प्रान्तभागम् 'पिटुतं वा' पृष्ठान्तं वा पृष्ठस्य अपानद्वारस्य गुदाया इत्यर्थः अन्तम् भागं 'सोयंत वा' स्रोतोऽन्तं वा तत्र स्रोतः-छिद्रविशेषः स्त्रिया नाभिकर्णादिकं मैथुनेच्छया 'भल्लायएण' भल्लातकेनभल्लातकेति औषधिविशेषः तेन औषषिविशेषेण-औषधिविशेषलेपेन सौन्दर्यसौगन्ध्यादिकं 'उप्पाएई' उत्पादयति-करोति 'उप्पाएंतं वा साइज्जइ' उत्पादयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।।सू० १४॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसतं वा पिठंतं वा सोयंतं वा भल्लायएण उप्पाएत्ता सीओदगवियडेण वा उसिणोदगवि. यडेण वा उच्छोल्लेज्ज वा पधोएज्ज वा उच्छोलेंतं वा पधोएंत वा साइ. ज्जइ ॥ सू० १५॥
छाया-यो भिक्षुर्मातग्रामस्य मैथुनप्रतिज्ञया पोषान्तं वा पृष्ठान्तं वा स्रोतोऽन्तं वा भल्लातकेन उत्पाय शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेदा प्रशा. वेद्वा उच्छोलयन्तं वा प्रधावन्तं वा स्वदते ॥सू० १५॥
चर्णी- जे भिक्खु माउग्गमस्स' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए'. - मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'पोसंतं वा' पोषान्तं वा 'पिटतं वा' पृष्ठान्तं वा 'सोयतं वा' स्रोतोऽन्तं वा पूर्वनिर्दिष्टस्वरूपम् 'भल्लायएण उप्पाएता'