________________
ફેર
निशीथसूत्रे श्रावकादिभ्यो गत्वा कथितम्-मह्य रजोहरणं देहि अहं पुनः कार्य संपाद्य तस्यामेव रजन्यां रात्रौ प्रत्यर्पयिष्यामि गत्रेः प्रागेवेत्यर्थः, रात्रौ आदानप्रदानस्य निषिद्धत्वात् रननीतिपदं दिवसावसानबोधकम् , इत्येवं प्रकारेण याचनां कृत्वा रजोहरणमानीतवान् किन्तु 'मुए पच्चप्पिणई' श्वः प्रत्यर्पयति श्वः परदिने प्रातःकाले रात्रिव्यपगमानन्तरं प्रत्यर्पयति रजोहरणम्, तथा 'पच्चप्पिणतं वा साइज्जइ' प्रत्यर्पयन्तं वा स्वदते । यो हि रजोहरणादिकं तदिवसमात्रस्य कृते याचित्वा आनीतवान् , यद्यपि प्रातिहारिकं रजोहरगमाहारवस्त्रपात्रादि कम्बलं च न कल्पते साध्नामिति रजोहरणस्य प्रातिहारिकत्वेन याचनं न संगञ्छते तथापि अकस्मात् चौरादिना अपहृतम् , अग्निना दग्धं, कुत्रापि विरमृतं चेद् जोहरणं भवेत् तदा तात्कालिककार्यकरणाय तद्याचनस्य संभवः किन्तु प्रत्यर्पयति द्वितीयदिने प्रातःकाले । एतादृशं श्रमण स्वदते अनुमोदते स प्रायश्चित्तभागी भवति मृपावादादिदोषसंभवात् , तथा एतादृशस्याज्ञाभङ्गादयोऽपि दोषा भवन्तीति ।सू० १५॥
सूत्रम्--जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता 'सुए पच्चप्पिणिस्सामि'-त्ति तमेव रयणि पच्चप्पिणइ पञ्चप्पिणतं वा साइज्जइ । सू०१६।
- छाया-यो भिक्षुः प्रातिहारिकं पादपोंछनक याचित्वा श्व. प्रत्यर्पयिष्यामो-ति तस्यामेव रजन्यां प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते ॥सू०१६॥
' चूणीं-'जे भिक्खू पाडिहारियं 'इत्यादि । 'जे भिक्खू यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पाडिहारिय' प्रातिहारिक पुनः प्रत्यर्पणयोग्यम् 'पायपुंछणं' पादपोंछनकं "जाइन याचित्वा श्रावकेभ्यो पादप्रोछनस्य याचनां कृत्वाऽऽनीतं 'मुए पच्चप्पिणिस्सामि'-ति वा प्रात:काले प्रत्यर्पयिष्यामि, अर्थात् कश्चित् साधुःश्रावकगृहं गत्वा कथयति-'मोः । मह्यमेकं पादपोंछनकै देहि कार्य कृत्वा प्रातः पुनः प्रत्यर्पयिष्यामि' इति कथयित्वा श्रावकेभ्यो पादपोछनक गृहाति किन्तु 'तमेव रयणि पच्चप्पिणई' तस्यामेव रजन्यां-रजनीमुखे दिवसावसाने प्रत्यर्पयति, यदिवसे एवं याचनां कृत्वा द्वितीयदिवसे दातुं कथयित्वा आनीतवान् तत् तस्यामेव रात्रौ रात्रेः पूर्वमेव - पुनः प्रत्यर्पयति, तथा 'पञ्चप्पिणतं वा साइजई' प्रत्यर्पयन्तं वा वा स्वदते, प्रातःकाले प्रत्यर्पयिष्या, मीति कथयित्वा प्रातिहारिक रजोहरणं याचित्वा आनीतवान् परन्तु तदात्रः प्रागेवं · प्रत्यर्पणं करोति, तादृशं श्रमणं योऽनुमोदते स प्रायश्चित्तभागी भवति, एवं करणे साधोर्वचने मृषावाददोषापत्तिः स्यात् ।
सूत्रम्-जे भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता 'तमेव रयणि पच्चप्पिणिस्सामि'-त्तिं सुए पच्चप्पिणइ पच्चप्पिणतं वा साइज्जइ ॥ सू० १७॥