________________
૪
निशीथसूत्र
सूत्रम् — जे भिक्खु अप्पणो संघाडियं अण्णउत्थिएण वा गारत्थि - एण वा सागारिएण वा सिव्वावेइ वा सिव्वावेंतं वा साइज्जइ ॥ सू० १२॥
छाया -यो भिक्षुरात्मनः संघाटिकाम् अन्ययूथिकेन वा गार्हस्थिकेन वा सागारिकेण वा सीवयति सीवयन्तं वा स्वदते ॥ सू० १२||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अप्पणो संघाडियं आत्मनः स्वस्य संघाटिकां प्रावरणवस्त्रं 'चादर' 'पछेवडी' इति भाषाप्रसिद्धाम् 'अण्णउत्थिपण वा' अन्ययुथिकेन वा परतीर्थिकेन 'गारस्थिएण वा' गार्हस्थिकेन वा येन केनचित् पूर्वसंस्तुतादिना तदन्येन वा गृहस्थेन 'सागारिएण वा' सागारिकेण वा, तत्र सागारिकः श्रावक इत्यर्थः तेन 'सिव्वावे ' सीवयति - परद्वारा स्वकीयप्रावरणवस्त्रस्य संधानं कारयतीत्यर्थः, तथा 'सिच्वावेंतं वा साइज्जइ' सीवयन्तं वा स्वदते ।
","- अत्राह भाष्यकारः-
भाष्यम् – परतित्थिगित्येहिं संघाडीए य सीवणं । कारेह समणो जो उ, आणाभंगाइ पावइ ॥ छाया - परतीर्थिगृहस्थैः, संघाटवाश्च सीवनम् ।
कारयति श्रमणो यस्तु, आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः – 'परतित्थि०' इत्यादि । यस्तु श्रमणः साधुः परतीर्थिकगृहस्थैः, उपलक्षणात् श्रमणीभिर्वा संघाटचा : - 'चादर' 'पछेवडी' इति भाषाप्रसिद्धायाः सीवनम्, उपलक्षणत्वात् आहाराद्यानयनवैयावृत्यादिकं वा क्वापि कस्मिन्नपि काले कारणेऽकारणे वा कारयेत् तदा आज्ञाभङ्गादिदोषान् प्राप्नोति । यस्मिन् संप्रदाये गच्छे वा संयतीभिः उपर्युकं कार्यं कारयति स गच्छः लोकानां पुरतो नपुंसक इव शास्त्रविदां परिषदि सर्वथैव अनादृतो भवतीति भावः ॥ सू०१२॥
:
सूत्रम् — जे भिक्खू अप्पणा संघाडीए दीहसुत्ताई करेइ करेंतं वा साइज्जइ || सू० १३ ॥
छाया - यो भिक्षुरात्मनः संघाटया दीर्घसूत्राणि करोति कुर्वन्तं वा स्वदते ॥ सू०१३ || चूर्णी - 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः 'अप्पणो' आत्मनः स्वस्य ‘संघाडीए' संघाट्याः प्रावरणवस्त्रस्य 'चादर' 'पछेवडी' इति लोकप्रसिद्धायाः 'दीहसुत्ताई करेई' दीर्घसूत्राणि प्रावरणवस्त्रान्तभागस्थितानि दशिकारूपाणि लघुसूत्राणि, तानि दीर्घसूत्राणि कार्पासिकसूत्रेषु ऊर्णासूत्राणां ऊर्णास्त्रेषु क्षौभिकादिसूत्राणां बन्धनं दत्त्वा दीर्घाणि चतुरङ्गुलादधिकानि विस्तृतानि सूत्राणि शोभार्थं करोति-संपादयति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञामगादिका दोपा अपि भवन्तीति ॥ सू० १३ ॥