________________
६०५
निशीथसूत्र सूत्रम्-जे भिक्खू अप्पणो दंते फुमेज्ज वा रएज्ज वा फुतं रएंतं वा खाइज्जइ |सू० ५२॥
छाया-यो भिक्षुरात्मनो दन्तान फूत्कुर्याद्वा रज्जयेद्वा फूत्कुर्वन्तं वा रजयन्तं वा स्वदते ॥ सू०५२।।
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे मिक्खू' यो भिक्षुः 'अप्पणो दंते' आत्मनो दन्तान् 'फुमेज्ज वा फूलकुर्यात् मुखवायुना 'रएज्ज वा' रञ्जयेद्वा-रागादिद्रव्येण स्वदन्तान् रागयुक्तान् कुर्यात् । तथा 'फुमतं वा रएंतं वा साइज्जई' फूत्कुर्वन्तं वा रञ्जयन्तं स्वदते स प्रायश्चित्तभागू भवति । तस्याज्ञाभङ्गादयो दोषा भवन्ति । दन्तानां फूत्कारे वायुकायविराधना भवति रञ्जनेऽनेके दोषा उक्ता अतस्तान्न फूत्कुर्यात् न वा रञ्जयेत् ॥ सू० ५२॥
सूत्रम्-जे भिक्खू अप्पणो ओठे आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥सू० ५३॥
सूत्रम्-एवं ओठे पायगमओ भाणियब्वोजाव फुमेज्ज वा रएज्ज वा, फुमतं वा रएंतं साइज्जइ ।। सू० ५४-५८||
छाया-यो भिक्षुः आत्मन ओप्टौ-मामार्जयेद्वा प्रमार्जयेद्वा आमार्जयन्त वा प्रमाजयन्तं वा स्वदते ॥सू० ५३॥ ___ एवम्-ओष्ठे पादगमको भणितव्यो यावत्फूत्कुर्याद्वारञ्जयेद्वा, फूत्फुर्वन्तं वा रज. यन्त वा स्वदते ।। सू० ५४-५८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'अप्पणो ओ?' आत्मनःऔष्ठो, 'आमज्जेज्ज वा' आमार्जयेत्-एकवारं वस्त्रादिना ओष्ठयोः प्रमार्जन कुर्यात् 'पमज्जेज्ज वा' प्रमार्जयेद्वा-अनेकवारं प्रमार्जनं कुर्यात् । 'आमज्जतं वा पमज्जंतं वा साइज्जई आमजयन्तं वा प्रमाजयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५३॥ ‘एवं ओढे' इत्यादि । 'एवं ओढे' एवम्- अनेन प्रकारेणोप्ठे-ओष्ठविपयेऽपि 'पायगमओ' पादसूत्रोक्तो गमकः प्रकारः 'माणियब्यो' भणितव्यः 'जाव फुमेज्ज वा-रएज्ज या' यावत्-फूत्कुर्याद्वारजयेद्वार, 'फुमतं वा रएतं वा साइज्जइ' फूत्कुर्वन्तं वा रजयन्त वा स्वदते ॥सू० ५४-५८॥
तथाहि-"जे भिक्खू अप्पणो ओढे संवाहेज वा पलिमद्देज्ज वा संवाहतं वा पलिमहेंतं वा साइज्जइ ॥० ५४॥ जे मिक्खू अप्पणो ओढे तेल्लेण वा घएण वा वसाए वाणवणीएण वा, मखज्ज वा भिलिंगेज्ज वा मखंत वा मिलिंगेंतं वा साइज्जइ ।।सू०५५॥