________________
निशीथस्चे
१६
भगन्दरं-लिङ्गगुदयोर्मध्ये नाडीस्थं व्रणम् , यदि 'अन्नयरेण' अन्यतरेण-येन केनाऽपि 'तिक्खण' तीक्ष्णेन, 'सत्थजाएणं' शस्त्रजातेन 'आच्छिदित्ता' आच्छिद्य-ईपदेकवारं वा छेदनं कृत्वा 'विछिदित्ता' विच्छिद्य-अधिकमनेकवारं वा छेदनं कृत्वा ततो व्रणप्रदेशात् 'पूयं वा सोणियं वा' पूर्व वा शोणितं वा-पक्वरुधिरं पूयः, अपक्वं रुधिरं शोणितम् 'णीहरेज्ज वा' निहरेत्निष्कासयेत् 'विसोहेज्ज वा' विशोधयेत्-त्रणगतपूयादिकस्य शोधनं कुर्यात् । तथा 'णीहरतं वा' निर्हरन्तं व्रणप्रदेशात् पूयादिकं निष्कासयन्तम्, 'विसोहेंतं वा' विशोधयन्तं पूयशोणितादेः शुद्धिं कुर्वन्तम् 'साइज्जइ' स्वदते, यो भिक्षुः स्वशरीरस्थितव्रणादिविशेष छित्त्वा ततो गलन्तं पूयशोणितादिकं निष्कासयति विशोधयति वा, वं योऽनुमोदते वा स प्रायश्चित्तभागू भवति, भवन्ति च तस्याज्ञाभङ्गानवस्थामिथ्यात्वयंयमविराधनात्मविराधनादोषाः, तस्मात् कारणात् शरीरस्थमपि व्रणविशेष छित्त्वा छेदयित्वा वा ततो निर्गलन्तं पूयशोणितादिकं न निहरेत् , न वा विशोधयेत् , किन्तु ततो जायमानां वेदनां साम्यभावेन सहेतेति ।। सू० ३५॥
अत्राह भाष्यकार:भाप्यम् -जम्मंतरोवज्जियमत्थु दुक्खं, मुहं समागच्छउ वा जहिच्छं ।
इत्थं समाहित्थमणो मुणतो, जो सम्मभावेण सहे स साहू ॥ छाया-जन्मान्तरोपार्जितमस्तु दुःखं सुख समागच्छतु वा यथेच्छम् ।
इत्थं समाधिस्थमना जानन् य. साम्यभावेन सहेत स साधुः॥ अवचूरिः-'जम्मंतरोवज्जिय' इत्यादि । जन्मान्तरे परभवे यद् उपार्जितं दुःखमस्तु सुखं वा यथेच्छं समागच्छतु नात्र मम काऽपि चिन्ता, इत्थम्-अनेन प्रकारेण समाधिस्थमनाः स्वकृतकर्मफलं जानन् सन् यो मुनिः दुःखं सुखं वा साम्यभावेन सहेत स साधुः कथ्यते ॥
अयं भावः-समाधौ वर्तमानो भिक्षुः स्वात्मानं भूपयन्तं छेदयन्तं वा न जानीते तत्र तस्य किं महत्त्वम् , यत् सुखं दुःखं वा सहते ? । इत्थमोषधिप्रयोगेण भिपग्भिरचैतन्यावस्थामानीतस्तावत्सुखं दुःखं वा न जानाति तत्रापि तस्य सुखदुःखसहने न महत्त्वम् । महत्त्वं तु-यश्चैतन्यदशायां स्थितो न समाधौ-न वा मूर्छितावस्थायां तत्र प्रतिक्षणं स्वशरीरे व्रणादिजनितमसामपि दुःखं जन्मान्तरकर्मोपार्जितमिति मत्वा समभावेन सहते तस्य तदेव महत्त्वम् , उक्तं च
विपगणपरिवेगाद्वा समाधेः प्रयोगाद, यदि सहनसमर्थः स्वाङ्गदुःखस्य भोगे । नहि भवति स सोडा नास्य तत्तन्महत्त्वं,
परिभजति समस्थस्तन्महत्त्वं महत्त्वम् ॥१॥ ' 'सुखं तु सर्वोऽपि जनः सानन्दो भूत्वा हसन् सहते किन्तु-धीरस्तत्रानन्दमजानानस्तीथकरोक्तभावनां भावयन् दिवसं वा रात्रि वा व्यतिक्रामतीति ॥ ३५ ॥