________________
॥ तृतीयोद्देशकः॥ अथ तृतीयोदेशकप्रथमसूत्रस्य द्वितीयोदेशकान्तिमसूत्रेण सह कः संबंधः ? इति चेदत्राह भाष्यकारः---'उवहि' इत्यादि । भाष्यम्-उवहिपडिलेहो य, पुव्वुत्तो तयणंतरं ।
आहारं पडिगिहिज्जा, संबंधोऽत्थ वियाहिओ ॥१॥ छाया--उपधिप्रतिलेखश्च पूर्वोक्तस्तदनन्तरम् ।
आहारं प्रतिगृहीयात्, सम्बन्धोऽत्र व्याख्यातः ॥१॥ अवचूरि:-'उवहीपडिलेहो य' उपधिप्रतिलेखश्च, उपधिप्रतिलेखः उपधेः-प्रतिलेखना 'पुव्वुत्तो' पूर्वोक्तः पूर्वमुक्तः कथितः, तदन्तरम् उपधि प्रतिलिख्य उपधेः वनादेः आहारप्रसङ्गात्पात्रस्य च प्रतिलेखनां कृत्वा आहारं प्रतिगृह्णीयात् , इति अस्मिन् तृतीयोदेशे आहारग्रहणविधिः प्रदर्श्यते, एष एवात्र तृतीयोदेशस्य द्वितीयोदेशान्तिमसूत्रेण सह सम्बन्धो व्याख्यातः कथितः । अनेन सम्बन्धेनायातस्यास्य तृतीयोदेशकस्येदमादिमं सूत्रम् , तत्र प्रथमं पुरुषमधिकृत्यएकवचनसूत्रमाह-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू आगंतागारेसुवा, आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थियं वा गारस्थिय वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासिय-ओभासिय जायइ, जायंत वा साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुः आगन्त्रागारेपु वा-आरामागारेपु वा गाथापतिकुलेपु वा पर्यावसथेपु वा अन्ययूथिकं वा-गाहेस्थिकं वा अशन वा पानं या खाद्यं वा स्वाद्य वा भवभाष्याऽवभाण्य याचते, याचमानं वा स्वदते ॥ सू० १॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'आगंतागारेसुवा' आगन्त्रागारेषु वा, तत्र-आगन्तारः-पथिकाः तेषां विश्रामकरणाय कृत आगारो गृहम् 'धर्मशाला' इति लोके प्रसिद्धम् , तत्र गत्वा, अर्थात्-यत्र स्थानविशेपे निर्मिते गृहे आगन्तुकाः सार्थवाहादयो गमनागमन“समये समागत्य विश्रामार्थं निवसन्ति तादृशगृहविशेषे स्थितश्रावकाणां पुरतोऽशनादिकं याचतेइत्यग्रिमेण संबन्धः । 'आरामागारेसु वा' मारामागारेषु, तत्र-"आरामः स्यादुपवनं कृत्रिमं वनमेव यत्" इत्यमरः, तस्मिन्नाराम-उपवने -आगारो गृहम् कञ्चित्कालं मनोविनोदनाय क्रीडार्थ वस्तुम निर्मीयते, तेपु वा 'गाहावडकुलेसु वा' गाथापतिकुलेषु वा-गाथा:-गृहाः, तेषां पतयस्तेषां कुलेषु । 'परियावसहेस वा' पर्यावसथेषु वा, तत्र-गृहिपर्याय परित्यज्य प्रव्रज्यापर्याये ये स्थितास्तापसा