________________
चूर्णिमाष्यावचूरिः उ० २ सू० ५४-६० प्रणष्टशय्याद्यगेवषणोपध्यप्रतिलेखननिषेधः ७५ कृत्वा विहारकाले 'अविगरणं कड अणप्पिणित्ता' अविकरणं कृत्वा-अनर्पयित्वा, विकरणम् अन्यथा करणं, न तथा-अविकरणं-यथागृहीतं तथाकरणमित्यर्थः, तत् कृत्वा श्रावकात् पीठफलकतृणादिकं यथागृहीतं तथाकृत्वा-तथासंपादनपूर्वकम् , अनर्पयित्वा-अदत्वा मत्कुणादिजीवसहितमेव पीठफलकादिकं तृणादिसंस्तारकं च दत्त्वेति भावः 'संपन्चयइ' संप्रव्रजति-विहारं करोति, तथा 'संपव्ययंतं' संप्रव्रजन्तमन्यम् 'साइज्जइ' स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ॥ सू० ५७ ॥
मूत्रम्--जे भिक्खू पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं विप्पणहूँ न गवेसइ न गवसंतं वा साइज्जइ ॥ सू० ५८॥
छाया-यो भिक्षुः प्रातिहारिक वा सागारिकसत्कं वा शय्यासंस्तारकं विप्रणष्टं न गवेपयति न गवेषयन्तं वा स्वदते ॥ सू० ५८ ॥
चूर्णी--'जे भिक्खू इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाडिहारियं वा' प्रातिहारिक-प्रत्यर्पणार्हम् 'सागारियसंतियं' सागारिकसत्कम् सागारिकसम्बन्धिकं सांप्रतं श्रमणाधीनम् 'सेज्जासंथारगं' शय्यासंस्तारकं-पीठफलकादिकं रक्ष्यमाणमपि 'विप्पण' विप्रणष्टम्-चौरादिनाऽपहृतम् तद्यदि 'ण गवेसइ' न गवेषयति, इतस्ततोऽन्यान्यं न पृच्छति तद्रूपां गवेपणां न करोतीत्यर्थः, तथा 'न गवसंतं साइज्जई' न गवेषयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चित्तभार भवति ।। सू० ५८ ॥
सूत्रम्--जे भिक्खू इत्तरियपि उवहिं ण पडिलेहइ ण पडिलेहतं वा साइज्जइ ।। सू० ५९ ॥
छाया-यो भिक्षुः इत्वरिकमपि उपधिं न प्रतिलेखयति न प्रतिलेखयन्तं वा स्वदते ॥ सू० ५९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'इत्तरियपि उबहि' इत्वरिक स्वल्पमप्युपधि वस्त्रपात्रादिकम् , स त्रिधा-जघन्य-मध्यमो-कृष्टभेदात् । तत्र-जघन्यो मुखवस्त्रिका वस्त्रखण्डं वा, मध्यमः-प्रावरणचोलपट्टकादिरूपः, उत्कृष्टः-सर्व वस्त्रपात्रादिकम् , तस्मिन् स्वल्पमपि मुम्बवत्रिकारूपमपि 'न पडिलेहई' न प्रतिलेखयति तस्य प्रतिलेखनां न करोति उभयकालं सर्वभाण्डोपकरणादीनाम् , तेन प्रमादी भवति । प्रमादप्रभावात् संयमक्रियां विस्मरति । एकस्यां संयमक्रियायां विस्मृतायामन्यापि स्वाध्यायादिक्रिया विस्मृता भवति, ततश्चारित्रभ्रंशः, चारित्रभ्रंशात्-चातुर्गतिकसंसारभ्रमणमनन्तजन्ममरणप्राप्तिः, तस्मादुभयकालं सर्वभाण्डोपकरणानां प्रतिलेखना कर्तव्या। 'ण पडिलेहंतं वा साइज्जई' न प्रतिलेखयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ५९॥