________________
३१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे जाव भुंजए माणुस्लए सुहे कच्छ णामधेज्जे य कच्छे इत्थदेवे महिद्धीए जाव पलिओवमटिईए परिवलइ, से एएणटणं गोयमा! एवं बुच्चइ कच्छे विजए कच्छे विजए जाव गिच्चे सू० २६॥ ___ छाया-क खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञसः ?, गौतम ! सीताया महानद्या उत्तरेण नीलवतो वर्षधरपर्वतस्य दक्षिणेन चित्रकूटस्य वक्षस्कापर्वतस्य पश्चिमेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खलु जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीनप्रतिचीनविस्तीर्णः पल्यङ्कसंस्थानसंस्थितः गङ्गा-सिन्धुभ्यां महानदीभ्यां वैताढयेन च पर्व तेन पडूभागप्रविभक्तः पोडश योजनसहस्राणि पश्च च द्वि नवतानि योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य आयामेन द्वे योजनसहरी द्वे च त्रयोदशौत्तरे योजनशते किश्चिद्विशेपोने विष्कम्भेणेति ! कच्छस्य खलु विनयस्य वहुमध्यदेशमागे अत्र खलु वैताढयो नाम पर्वतः प्रज्ञप्ता, य: खलु कच्छं विजयं द्विधा विभजमानः २ तिष्ठति, तद्यथा-दक्षिणार्द्ध कच्छमुत्तराईकच्छं चेति, क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैताढयस्य पर्वतस्य दक्षिणेन सीताया महानद्या उत्तरेण चित्रकूटस्य वक्षस्कारपर्वतस्य पश्चिमेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खल्ल जम्बूद्वीपे द्वीपे महाविदेहे वर्षे दक्षिणा कच्छो नाम विजयः प्रज्ञप्तः, उत्तरदक्षिणायतः प्राचीन प्रतीचीनविस्तीर्णः अष्ट योजनसहस्राणि द्वे च एकसप्तते योजनशते एकं च एकोनविंशतिभागं योजनस्य आयामेन द्वे योजनसहस्रे द्वे च त्रयोदशोत्तरे योजनशते किञ्चिद्विशेपोने विष्कम्भेण पल्यङ्क-संस्थानसंस्थितः, दक्षिणार्द्धकच्छस्य खल भदन्त ! विजयस्य कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तद्यथा-यावत् कृत्रिमैश्चैव अकृत्रिमैचैव । दक्षिणाईकच्छे खलु भदन्त ! विजये मनुजानां कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः १, गौतम ! तेषां खल मनुजानां पविधं संहननं यावत् सर्वदुःखानामन्तं कुर्वन्ति । क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छे विजये वैताढयो नाम पर्वतः ?, गौतम ! दक्षिणाईकच्छविजयस्य उत्तरेण उत्तरार्द्धकच्छस्य दक्षिणेन चित्रकूटस्य पश्चिमेन माल्यवतो वक्षस्कारपर्वतस्य पौरस्त्येन अत्र खल कच्छे विजये वैनाढयो नाम पर्वतःप्रज्ञप्तः, तद्यथा-प्राचीनप्रतीचिनाऽऽयतः उदीचीनदक्षिणविस्तीर्णः द्विधा वक्षस्कारपर्वतौ स्पृष्टः-पौरस्त्यया कोटया यावद् द्वाभ्यामपि स्पृष्टः भरतवैताढयसदृशकः नवरं द्वे वाहे जीवा धनुष्पृष्ठं च न कर्तव्यम्, विजयविष्कम्भसदृशः आयामेन, विष्कम्भ उच्चत्वगुद्वेधस्तथैव च विद्याधराभियोग्यश्रेण्यौ तथैव नवरं पञ्चपञ्चाशदरविद्यावरनगरावासाः प्रज्ञप्ताः, आभियोग्यश्रेण्यां औत्तराह्यः श्रेणयः सीतायाः ईशानस्य शेपाः शक्रस्येति, कूटानि-सिद्धं १ कच्छं २ खण्डक ३ माणि ४ वैताढय ५ पूर्ण ६ तमिस्रगुहा ७ कच्छं ८ वैश्रवणं ९ वा वैतादये भवन्ति कूटानि ।श क्व खलु भदन्त ! जम्बूद्वीपे द्वीपे महा