________________
-
मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४
२८३ __अतएव, 'अक्खयाचारचरिता' आचार: आधाकर्मादिदोपपरित्यागः, चारित्र-सामायिकादि, आचारश्च चारित्र चेत्याचारचारित्रे, अक्षते अखण्डिते आचारचारित्रे येपा ते-अक्षताऽऽचारचारित्राः देशतः सर्वतश्चाऽविप्लुताऽऽचारचारित्रा इत्यर्थः । सम्मत्युपसजिहीर्पयाऽऽह-'ते सव्वे' तान् सर्वान् गन्छगताँस्तन्निर्गताँश्च जिनकल्पिकादीन् साधुन् 'सिरसा' शिरसा करशिरःसयोगेनेति भावः, अग्रे 'मत्थएण' (मस्तकेन) इत्यस्योपादानात, 'मणसा' मनसा हृदयेन, 'मत्थएण' मस्तकेन-शिरसा नतेनेति शेप', अतएव 'सिरसा' 'मत्थएण' इत्यनयोः पर्यायत्वेऽपि न पौनरुत्वम्, यत्तु पौनरुत्यभयाद्डलिकामवाहेण वा 'मत्थएण वदामि' इति वाचा वटेदिति व्याख्यान तदत्यन्ताऽसामञ्जस्यात्सूत्राक्षराभिमायापरिज्ञानाद्वा विद्वदश्रद्धेयमेवेति सहृदयाः प्रमाणम् । न च'सिरसा' इत्यनेन कायिकस्य 'मणसा' इत्यनेन मानसिकस्य च वन्दनस्योक्ती वाचिकस्यापि तस्योपादानमावश्यकमेवेति युक्तमेवेति वाच्यम्, 'तान् सर्वान् शिरसा मनसा मम्तकेन वन्दे' इत्युक्तो वाचिकवन्दनस्याऽर्थांपत्तिलभ्यत्वाद, नहि वाक्प्रयोग विनैवमुक्तिः 'समस्तीत्यास्ता तारत् । इत्य सर्वसावूनभिवन्ध निखिलपाणिजातक्षमापणपूर्वक मैत्रीमभिव्यनक्ति-'सब०' इति 'सव्वजीवे' सर्वे च ते जीवाः सर्वजीवास्तान-शुद्रक्षुद्रेतराखिलपाणिनः, 'खामेमि' क्षमयामि सर्वेभ्यो जीवेभ्यः क्षमामभिमासामीत्यर्थ , 'सव्वे जीवा' सर्वे जीवाः 'मे' मम अज्ञानादिवशाजातमपराधमितिशेष 'खमतु' क्षमेरन् । 'मे' मम, 'सव्वभूएमु' सर्वभूतेपु, 'मित्ती' मैत्री मित्रभावः अस्तीत्यध्याहियते, 'यत्र
इस प्रकार सन्त मुनिराजों को वन्दना करके समस्त जीवों की क्षमापनापूर्वक मित्रभावना प्रकट करते हैं-'मै सब जीवों से अपने अपराध की क्षमा मागता हूँ और वे सभी मेरे अपराध की
એ પ્રમાણે સન્ત મુનિરાજોને વદના કરીને સમસ્ત જીની ક્ષમાપનાપૂર્વક મિત્રભાવના પ્રગટ કરે છે હુ સર્વ જી પાસે મારા અપરાધની ક્ષમા માગુ છું, અને
टि० १-समस्ति-सभवति ।