________________
-
मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४
॥ छाया ॥ केऽपि भणन्ति मूढाः, सयमयोगाना कारण नैवम् । रजोहरणमिति प्रमार्जनादिभिरुपघातभावात् ॥ १॥ मुइङ्गलिकादीना, विनाशसन्तानभोग्यविरहादयः । रजोदरिस्थगनससर्जनादिना भवत्युपधात. ॥२॥ प्रत्युपेक्ष्य प्रमार्जन,-मुपघातः कथ नु तत्र भवेत् । अपमृज्य च दोपा वा आदावागाढव्युत्सर्गे ॥३॥ आत्मपरपरित्यागो द्विधापि शास्त्रस्य (शासितुः) अकौशल नूनम् ।
ससर्जनादिदोपा देहे इव अविधिना नो भवन्ति ॥४॥
इत्यास्ता विस्तरः, प्रकृतमनुस्रियते-मुखवत्रिका-वायुकायादियतनाथ मुखोपरि दवरकेण बन्धनीयमष्टपुटमुपकरणम् , गुच्छका पात्रादिप्रमार्जनीविशेषः, पूँननी' इति भाषाप्रसिद्धः, प्रतिगृह्णाति-भक्तपानादिक स्वस्मिन्नाधत्त इति प्रतिग्रहः भक्तपानादिपात्रम् , रजोहरण च मुखवत्रिका च, गुच्छमश्च प्रतिग्रहश्चेति रजोहरणमुखवत्रिकागुच्छकपतिग्रहास्तान् धरन्ते ये ते रजोहरण-मुखवत्रिकागुच्छक-प्रतिग्रहधारा । इत्थ निहवादयोऽपि सभवन्तीति तदपाझरणार्थमाह'पचमहन्वयधारा' पञ्चमहारतानिपाणातिपाताऽनृतभापणाऽदत्ताऽऽदाना-ऽब्रह्मचर्यपरिग्रहव्युपरमलक्षणानि धरन्त इति पञ्चमहाव्रतधारा । न केवलमेत एव किन्तूक्तगुणविशिष्टा. सन्तोऽपि- अहारससहस्ससीलगधारा' अष्टादशसहस्रशीलागधारा । अष्टादशशीलासहस्राणि तु यथा-यो न करोति मनसाऽऽहारसज्ञाविप्रयुत श्रोत्रेन्द्रियसत क्षान्तिसम्पन्न. पृथिवीमायारम्भम् (१), एवमफायारम्भम् (२), तेजस्कायारम्भम् (३), वायुकायारम्भम् (४), बनस्पतिकायारम्भम् (५), द्वीन्द्रियारम्भम् (६), त्रीन्द्रियारम्भम् (७), चतुरिन्द्रियारम्भम् (८), पञ्चेन्द्रियारम्भम् (९), अनीवारम्भ च (१०) । एते शान्तिपदेन
१- धाराः' कर्मण्यण् ।।
२-निनुवत इति निवाः, पचादेराकृतिगणत्वाकर्त्तयेच, यद्वा निहवः= अपलापोऽस्त्येपामिति निहवा., निहवशब्दादर्श आदित्वान्मत्वर्थीयोऽच्, सज्ञेय तान्त्रिकी।
३- धारा.' कर्मण्यण ।