________________
राजप्रश्नीयसूत्र श्रमणो वायुकास्थाशक्यदर्शनत्वे प्रदेशिनमाह-हे प्रदेशिराज ! यदि त्व खलु एतस्य वायुकायस्य सरूपिणः यावत्-सशरीरस्य रूपं न पश्यसि तत्-तदा कथं-केन प्रकारेण खलु करतले आमलक वा-इव जीव तव उपदर्शयि. प्यामि ? वायुकायस्य तव जीवस्य च समानरूपत्वादेकस्या शक्यदर्शनत्वेऽप. रस्थापि अशक्यदर्शनत्वात् । वक्ष्यमाणच्छमस्थमनुष्यस्य जीवादिस्थानानां सर्वभावेन ज्ञानदर्शनाऽयोग्यत्वात् कथं चक्षुर्गोचर कारयिष्यामीति भावः। तदेव दर्शयति-हे प्रदेशिन्! एवम् वक्ष्यमाणप्रकारेण खलु छद्मस्थो मनुष्यः दशस्थानानि वक्ष्यमाणानि धर्मास्तिकायादीनि सर्व भावेन सम्पूर्णतया न जानाति, न पश्यति । कानि तानीत्याह तद्यथा-धर्मास्तिकायम् ?, अधर्मास्तिकायम २, आकाशास्तिकायम्३, जीवशरीरवद्धम्-शारीरतोऽसंस्पृष्टम्४, परमाणुपुग्दलम्५, शब्दम्६, गन्धम७, वात- वायुम८, अयं जिनो भविष्यति वा-अथवा नो-न भविष्यतीति? ९, अयौं सर्वदुःखानामन्त करिष्यति वा नो करिष्यती ति१० एतानि दशस्थानानि उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली एव सर्व भावेप-साकल्येन जानाति तथा पश्यति, नद्यथा-धर्मास्तिकाय यावत्-नो वा करिष्यति तत्तस्मात्कारणात हे प्रदेशिन् ! त्व. श्रद्धेहि, यथा-अन्यो जीव: तदेवपूर्वोक्तमेव-अन्यच्छरीरम्. नो तज्जीवःस्स शरीरम् इति ॥ मू० १५१ ।।
मूलम्-तए णं से पएसी राया केसि कुमारसमणं एवं वयासी से नूर्ण भंते ! हस्थिस्स य कुंथुस्स य समे चेव जीवे ? हंता पएसी हस्थिस्स य कुथुस्स य समे चेव जीवे। से पूर्णभंते ! हथिउ कुंथू अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं अप्पाहारनीहारउस्तासनीसासड्डियतराए अप्पजुइयतराए चेव, एवं कुंथुओ हत्थी महाकम्मतराए चेव महाकिरियतराए चेव जाव ?, महज्जुइयतराए चेव । हंत ? हत्थीओ कुथ अप्पकम्मतराए चेव कुंथुओ वा हत्थी महाकम्मतराए चेव महाकिरियतराए चेव तं चेव । कम्हा णं भंते! हथिस्स कुंथुस्त य समे चेव जीवे। पएसी से जहाणामएकूडागारसाला सिया जाव निवायगंभीरा, अह णं केइ पुरिसे जोइं च