________________
सुबोधिनी टीका. सू. ८१ उपपातसभावर्णनम्
महानेको हूदः प्रज्ञप्तः | एक योजनशतम् = एकशतयोजनप्रमाण आयामेन, पञ्चाशद् योजनानि=पञ्चाशद्योजनप्रमाणो विष्कम्भेग दश योजनानि-दश योजनममाण उद्वेधेनाम्भीर्येण तथैव=नन्दापुष्करिणी वर्णित प्रकारक एव, अर्थात् - 'रजतमयकूलः अच्छो यावत्प्रतिरूपः' इत्येवं वर्णको बोध्यः । तथा - स खलु हूद एकया पद्मवरवेदिकया एकेन वनपण्डेन च सर्वतः समन्तात् = चतुर्दिगवच्छेदेन सम्परिक्षिप्त=सम्परिवेष्टितः । पण्वरवेदिकाया वनषण्डस्य च वर्णनं पूर्वत्रद् बोध्यम् । तस्य खलु हृदस्य त्रिदिशि= प्रत्येकदिशि दिवत्रयावच्छेन त्रिसोपान प्रतिरूपकाणि विशिष्टरूपयुक्तानि सोपानपङ्क्त्रियाणि प्रज्ञप्तानि । तथा-तस्प खलु दृदस्य उत्तरपौरस्त्ये = ईशान कोणे अत्र खलु महन्येका अभिषेकसभा = अभिषेकार्था सभा प्रज्ञप्ता । अभिषेकसभायाः स्वरूप• वर्णनादारभ्य गोमानसिकावर्णनावधिक सर्व वर्णनं सुधर्मासभावद् वोध्यम्अत एवाह-'मुधर्मागमकेन= सुधर्मा सभावर्णितप्रकारेण यावद् गोमानसिका' इति । तथा - गोमानसिकावर्णनानन्तर मणिपीठिका वर्णन, मणिपीठिकास्थित सपरिवार सिंहासनचर्ण'नं, तदतिरिक्तं च सर्ववर्णन' 'दामानि तिष्ठन्ति' तिष्ठन्ति' इति पर्यन्त सुधर्माभावदेव बोध्यम् । अत एवाह - 'मणिपीठिका सिंहासन सपरिवार विद्दामानि तिष्ठन्ति ' - इति । तत्र = अभिषेकसभायां खलु सूर्याभस्य देवस्य सुबह = प्रचुरम् आभिषेक्यं भाण्डं संनिक्षिप्त=संस्थापितं तिष्ठति । तस्या अभिषेकसभाया उपरि श्रष्टाष्टसंख्यकानि मङ्गलकानि, तथैव पूर्वदेव ध्वजाः छत्रातिच्छत्राणि च बोध्यानि । तस्याः खलु अभिषेक सभायाः उत्तरपौरस्त्ये श्रत्र खलु अलङ्कारिक सभा=अल रिकरणसभा प्रज्ञता । तस्या अलङ्कारिकसभायाः स्वरूप = द्वारत्रय - मुखमण्डप प्रेक्षागृह मण्डपादि सपरिवार सिंहासनान्तवर्णन सुधर्मासभावद् बोध्यम् । एतदेव सूचयितुमाह'यथा सुधर्मा, मणिपीठिका अष्ट योजनानि सिंहासनं सपरिवारम्' इति । तत्र=अलङ्कारिकसभायां खलु सूर्याभस्य देवस्य सुबहु = प्रचुरम् अलङ्कारिकं भाण्ड' संनिक्षिप्त तिष्ठति । शेषं तथैव = अलङ्कारिकसभाया उपरि अष्टाष्ट मङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति । तस्याः खलु अलङ्कारिकसभाया उत्तर पौरस्त्ये अत्र खलु महत्येका व्यवसायसभा - व्यवसायः=तत्त्वादिनिश्चयस्तदर्था सभा प्रज्ञता । तस्याः सर्व वर्णनम् उपपातसभावद् बोध्यम् । अनुमेवार्थं सूचयति - 'यथा उपपातसभा यावत् मणिपीठिका सिंहासन सपरिवारम्, अष्टाप्ट मङ्गलकानि ०' इति । तत्र = व्यवसायसभायां खलु सूर्याभस्य देवस्य अत्र खलु महदेकं पुस्तकरत्न सनिक्षिप्तं तिष्ठति । तस्य = पुस्तकरत्नस्य खलु अयमेतद्रूपो वर्णावासवर्णनपरः पद
1
५५७