________________
-
-
ट२२
जीवाभिगमसूत्र छया-क्षीरोदं खलु समुद्रं धृतवरो नाम द्वीपो वृत्तो वलयाकारसम्यानसंस्थितः यावत्परितिष्ठति, समचक्रवाल नो विषमचक्रवाल• संख्ययविष्कम्भपरि० प्रदेशा यावत् अर्थः । गौतम ! घृतवरे खलु द्वीपे नत्र तत्र बहवः शुद्राः क्षुल्लिका वाप्यो यावद् घृतोदक परिपूर्णाः उत्पातपर्वनाः यावत् ग्वडहड० सर्वकांचनमया अच्छा यावत्प्रतिरूपाः कनक-कनकप्रभा अत्र ही देवी महद्धिको चन्द्राः संख्येयाः। घृतवरं खल द्वीपं घृतोदो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितो यावत्तिष्ठति । समचक्रा० तथैव द्वारप्रदेशा जीवाश्चाऽर्थः, गौतम ! घृतोदस्य खलु समुद्रस्योदकं स यथा-प्रफुलशल्लकी विमुक्तककणिकार सर्पपविबुद्धकोरण्टदामपिण्डितनरस्य स्निग्धगुणतेजोदीप्तनिरुपहत विशिष्ट मुन्दरतरस्य सुजातदधिमथित तदिवसगृहीतनवनीतपटुसंगृहीतोत्कथित उद्दामसचोविस्यन्दितस्याधिक पीचरसुरभिगन्धमनोहरमधुरपरिणामदर्शनीयस्य पथ्यनिर्मलमुखो. पभोगस्य शरत्काले भवेत् । गोघृतवरस्य मण्डः भवेदेतद्रूपम् नाऽयमर्थः समर्थः । गौतम ! घृतोदस्य खलु समुद्रस्येतः इष्टतरं यावत् आस्वादेन प्रज्ञतम् कान्तसुकान्तौ अत्र द्वौ देवौ महद्धिको यावत् परिवसतः शेषं तदेव तारागणकोटिकोटयः । घृतोदं खलु समुद्रं क्षोदवरो नाम द्वीपो वृत्तो वलयाकारो यावत्तिष्ठति तथैव यावदर्थः । सोदवरे खलु द्वीपे तत्र २ देशे २ तत्र तत्र क्षुद्रा वाप्यो यावत् क्षोदोदक प्रतिपूर्णा उपपातपर्वताः सर्ववैड्यमया यावत् प्रतिरूपाः, सुप्रभ-महाप्रभौ द्वौ देवौ महद्धिको यावत् परिवसतः तत्तेनार्येन० सर्व ज्योतिष्कं तदेव यावत्ताराः । क्षोदवरं खलु द्वीपं क्षोदोदः नाम समुद्रो वृत्तो वलयाकार यावत् संख्येयानि योजनशतपरिक्षेपेण यावदर्थः, गौतम ! क्षोदोदस्य खलु समुद्रस्योदकं स आसल-मांसल-प्रशस्त - विश्रान्त-स्थिग्ध सुकुमाल भूमिभागे सुच्छिन्न सुकाष्ठलएविशिष्ट निरुपहतवीजोप्तेष्टकाशकपत्रपत्रकनिपुणपरिकर्माऽनुपालितमुवृद्धिवृद्धानाम् सुजातानाम् लवणतणदोपवर्जितानाम् निर्यात् परिवर्द्धितानाम् निर्मातसुन्दराणाम् रसेन परिणतमृदुपीनपर्वभङ्गुरसुजातमधुरपुष्पविरस्का उपद्रववर्जितानां शीतपरिस्पर्शितानाम् अभिनवभग्नानाम् आपालितानाम् त्रिभागनिर्वाटितवाटानाम् अपनीतमूलानाम् ग्रन्थिपरिशोधितानाम् कुशलनरकल्पितानाम् उद्वद्धानाम् पौण्डिकाणाम् चपलनरयन्त्रपरिगलितमात्राणाम् क्षोदरसो भवेद वस्त्रपरिपूतः चातुर्जातक सुवासितः अधिकपथ्यलघुको वर्णोपपेतस्तथैव भवेदेतदूपं स्यात् नायमर्थः समर्थः क्षोदरसस्य खलु समुद्रस्योदकम् इतः इष्टतरं चैव यौवदास्वादेन प्रज्ञप्तम्, पूर्णभद्र-मणिकभद्रौ च (पुण्य-पुण्यभद्रौ) अत्र द्वौ देवौ यावत् परिवसतः शेपं तथैव ज्योतिष्कं संख्येय चन्द्राः ॥१०२॥