________________
३९
,
प्रमेयद्योतिका टीका प्र. ३ उ. ३ सू. ५५ जंबूद्वीपद्वारसंख्यादि निरूपणम् मेव प्रवेशेन श्वेतं वरकनकस्तूपिकाकम् ईहामृगवृपभतुरगनरमकर विहगन्यालकिन्नररुरुसरभचमरकुञ्जरचनलता पद्मलताभक्तिचित्रम्, स्तम्भोगतवज्ज्रवेदिका परिगताभिरामम्, विद्याधरयमलयुगलयन्त्रयुक्तमिव अर्चिसहस्रमालिकं रूपकसहस्रकलितं दीप्यमानं देदीप्यमानं चक्षुलेोकनलेसं सुखस्पर्श सश्रीकरूपं वर्णो द्वारस्य तस्यायं भवति, तद्यथा-वज्रमया नेमाः, रिष्टमयाः प्रतिष्ठानाः, वैडूर्यमयाः स्तम्भाः, जातरूपोपचितप्रवरपञ्चवर्णमणिरत्नकुट्टिमतलो हंसगर्भमयएजुकः, गोमेदमय इन्द्रकीलः, लोहिताक्षमय्यौ द्वारचेट्यौ, ज्योतीरसमयमुत्तरङ्गम्, वैडूर्थमयाः कपाटाः, वज्रमय्यः संघयः लोहिताक्षमय्यः सूच्यः, नानामणिमयाः समुद्रकाः, वज्रमय्यः अर्गलाः अर्गलप्रसादा: वज्रमय्य आवर्तनपीठिकाः अङ्कांत्तरपार्श्वक निरन्तिकनकपाटम्, भित्तिष्वेव भित्तिगुटिकाः पटूपञ्चात्विका भवन्ति, गोमा पस्तावतिकाः, नानामणिरत्नव्यालरूपकलीलास्थितसालभञ्जिकाः, वज्रमयः कूटः, रजतमय उत्सेधः सर्वतपनीयमय उल्लोकः, नानामणिरत्नजालपञ्जरमणिवंशकलोहिताक्षप्रतिवंशकरजतभौमः, अङ्कमयाः पक्षवाहाः, ज्योतीरस· मया वंशाः वंशकवेल्लुकाथ, रजतमय्यः पट्टिकाः, जातरूपमय्योऽवघाटिन्यः वनमय्य उपरि पुञ्छ्न्यः सर्वश्वेतरजतमयं छादनम्, अङ्कमय कनककूट तपनीयस्तूfuar, rai शंखविमलनिर्मलदधिधनगोक्षीरफेनरजतनिकरप्रकाशम्, तिलकरत्नार्द्धचन्द्र चित्रम्, नानामणिमयदामालङ्कृतम्, अन्तर्बहिश्च श्लक्ष्णम्. तपनीयबालुकाप्रस्तटम्, शुभस्पर्श सश्रीकरूपं प्रासादीयम् ४ । विजयस्य खलु द्वारस्योभयो पार्श्वयो द्विघातो नैषेधिक्यां द्वे द्वे चन्दनकलशपरिपाटयौ प्रज्ञप्ते, ते खल चन्दनकलशाः वरकमलप्रतिष्ठानाः सुरभिवरवारिपूर्णाः चन्दनकृतचर्चाकाः आविकण्ठेगुणाः पद्मोत्पलपिधानाः सर्वरत्नमया अच्छा: श्लक्ष्णा यावत्प्रतिरूपाः, महातिमहन्महेन्द्रकुम्भसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ? । विजयस्य खलु द्वारस्य उभयोः पार्श्वयो द्विधातो नैषेवियां द्वे द्वे नागदन्तपरिपाटयौ प्रज्ञप्ते, ते खलु नागदन्तामुक्ताजालान्तरोत्सृत हेमजालगवाक्षजालकिङ्किणीघण्टाजालपरिक्षिप्ता अभ्युद्गता अभिनिसृष्टास्तिर्य कूसुसंप्रगृहीता अधः पन्नगार्द्धरूपाः पन्नगार्द्धसंस्थान संस्थिताः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः, महातिमहद् गजदन्तसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ! || तेषु खलु नागदन्तकेषु वहवः कृष्णसूत्रबद्धव्याधारितमाल्यदामकलापा यावच्छुक्लसूत्र वद्धव्याधारितमाल्यदामकलापाः । तानि दामानि तपनीय लम्बूसकानि सुवर्णप्रतरकमण्डितानि नानामणिमयरत्नविविधहारार्द्धहारोपशोभितसमुदायानि यावच्छ्रिया आतीवातीवोपशोभमानानि उपशोभमानानि तिष्ठन्ति ॥ तेषां खलु नागदन्तकानामुपरि अन्ये द्वे द्वे नागदन्तपरिपाटयौ प्रज्ञप्ते, तेषां खलु नागदन्तकानां मुक्ताजालान्तरोत्सृतास्तथैव यावत् श्रमण !
.
f
5
3