________________
प्रमेयोतिका टीका प्र.उ.३सू.८१ लवणसमुद्रवर्णनम्
५०३ . गया-जंबूद्वीपो नाम द्वीपो लवणो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य खलु तिष्ठति । लवणः खलु भदन्त ! समुद्रः किं समचक्रवालसंस्थितो विपमचक्रवालसंस्थितः गौतम ! समचक्रवालसंस्थितो न विषमचक्रवालसंस्थितः ! लवणः खलु भदन्त ! समुद्रः कियान् चक्रचालविष्कम्भेण कियान् परिक्षेपेण प्रज्ञप्तः गौतम ! लवणः खलु समुद्रः द्वे योजन शतसहस्र चक्रवालविष्कम्भेण पञ्चदश योजन शतसहस्राणि एकाशीति सहस्राणि शतमेकोनचत्वारिंशत् किञ्चि द्विशेषाधिका लवणोदधेश्चक्रवाल विष्कम्भेण परिक्षेपण। स खलु एकया पद्मवरवेदिकया-एकेन च वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्त स्तिष्ठति । द्वयोरपि वर्णकः, सा खलु पद्मवरवेदिका-ऽर्धयोजनमूर्ध्वम्-उच्चैस्त्वेन पञ्चधनुशतं विष्कम्भेण लवणसमुद्र समित परिक्षेपेण शेपं तथैव । स खलु वनपण्डः देशोने द्वे योजने यावद्विहरन्ति ! लवणस्य खलु भदन्त ! समुद्रस्य कति द्वाराणि प्रज्ञप्तानि गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि तद्यथा-विजयो-१ वैजयन्तो-२ जयन्तो-३ ऽपराजितः४। कुत्र खल्ल भदन्त ! लवणसमुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् गौतम ! लवणसमुद्रस्य पूर्वपर्यन्ते धातकी खण्डस्य द्वीपस्य पूवार्धस्य पश्चिमेन शीतोदाया महानद्याः उपरि अत्र खलु लवणस्य समुद्रस्य विजयं नाम द्वारं प्रज्ञप्तम् अष्टौ योजनानि ऊर्ध्वमुच्चैस्त्वेन चत्वारि योजनानि विष्कम्भेण एवं तदेव सर्व यथा जंबूद्वीपस्य विजयस्य द्वारसदृशमेतदपि राजधानी पूर्वेणान्यस्मिन् लवणसमुद्रे कुत्र खलु भदन्त ! लवणसमुद्रे वैजयन्तं नाम द्वारं प्रज्ञप्तम्, गौतम ! लवणसमुद्रे दक्षिणपर्यन्ते धातकीखण्ड द्वीपस्य दक्षिणार्धस्योत्तरेण शेष तदेव सर्वम् एवं जयन्तेऽपि नवरं शीताया महानद्याः उपरि भणितव्यम् । एवमपराजितेऽपि, नवरं दिग्भागो भणितव्यः । लवणस्य खलु मदन्त ! समुद्रस्य द्वारस्य च एतत् खलु कियत्यमवाधयाऽन्तरं प्रज्ञप्तम्, गौतम ! त्रीण्येव शतसहस्राणि पञ्चनवति भवेयुः सहस्राणि अशीते द्वे योजनशते क्रोशं द्वारान्तरं लवणे१ यावदबाधयाऽन्तरं प्रज्ञप्तम् । लवणस्य खलु प्रदेशाः धातकीखड़ द्वीपं स्पृष्टाः तथैव यथा जंबूद्वीपे धातकीखण्डेऽपि स एव गमः। लवणे खलु भदन्त ! समुद्रे जीवा उद्वयं स एव विधिः एवं धातकीखण्डेऽपि । तत्केनार्थेन भदन्त ! एवमुच्यते लवणसमुद्रः२ ? गौतम ! लवणस्य समुद्रस्योदकं आविलं रजोवत् लवणं-लिन्द्र-क्षारं-कटुकं अपेयम् बहूनां द्विपद-चतुष्पद-मृग पशु पक्षिसरीसृपाणां नान्यत्र । तद्योनिकेभ्यः सत्त्वेभ्यः सुस्थितोऽत्र लवणाधिपतिदेवो महर्दिकः पल्योपमस्थितिकः, स खलु तत्र सामानिक यावल्लवणसमुद्रस्य सुस्थिताया, राजधान्या अन्येषां यावद् विहरति तदेतेनार्थेन गौतम ! एव मुच्यते लवणः खलु समुद्रः ? अथोत्तरं च खलु गौतम ! लवणसमुद्रः शाश्वतो यावत् नित्यः ॥९० ८१॥