________________
४८०
जीवामिगमस्से कूडः प्रज्ञप्तः अष्टौ योजनानि ऊ मुच्चैस्त्वेन मूले द्वादशयोजनानि विष्कम्मेण मध्येऽष्टौ योजनान्यायामविष्कम्भाभ्याम् उपरि चत्वारि योजनान्यायामविष्काम्भेण मूले सातिरेकाणि सप्तत्रिंशन योजनानि परिक्षेपेण मध्ये सातिरेकाणि पंचविंशतियोजनानि परिक्षेपेण उपरि सातिरेकाणि द्वादशयोजनानि परिक्षेपेण मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुको गोपुच्छ संस्थानसंस्थितः सर्व जावून दमयोऽच्छो यावत्प्रतिरूपः । स खलु एकया पद्मवरवेदिकया-एकेन वनपण्डेन सर्वतः समन्तात्संपरिक्षिप्तः द्वयोरपि वर्णकः । तस्य खलु कूटस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तो यावदासते । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे एकं सिद्धायतनं क्रोशप्रमाणं सर्वापि सिद्धायतनवक्तव्यता ! जम्ब्याः खलु सुदर्शनायाः पूर्वस्य भवनस्य दक्षिणेन दक्षिणपूर्वस्य प्रासादावतंसकस्योत्तरेण अत्र खल्ल एको महान् कूटः प्रज्ञप्तः तदेव प्रमाण सिद्धायतनं च । जब्बाः खलु सुदर्शनायाः दक्षिणात्यस्य भवनस्य पूर्वेण दक्षिण पूर्वस्य प्रासादावतंसमस्य पश्चिमेन अत्र खल एको महान्कूट: प्रज्ञप्तः । दक्षिणस्य भवनस्य परतो दक्षिणपश्चिमस्य प्रासादावतंसकस्य पूर्वेण अत्र खलु एको महान् कूटः जंबूतः पश्चिमस्य भवनस्य दक्षिणेन दक्षिणपश्चिमस्य प्रासादावतंस कस्योत्तरेण अत्र खलु एको महान् कूटः प्रज्ञप्तः तदेव प्रमाणं सिद्धायतनं च । जंब्वाः पश्चिमभवनोत्तरेणोत्तर पश्चिमस्य प्रासादावतंसकस्य दक्षिणेनाऽत्र खलु एको महान् कूटः प्रज्ञप्त: तदेव प्रमाणं सिद्धायतनं च । जंव्या उत्तरस्य भवनस्य पश्चिममेनोत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वेणाऽत्र खलु एको महान् कूटः प्रज्ञप्तः तदेव । जंब्या उत्तर भवनस्य पूर्वेणोत्तरपूर्वस्य प्रासादावतंसकस्य पश्चिमेनाऽत्र खल्लु एको महान् कूटः प्रज्ञप्तः तदेव प्रमाणं तथैव सिद्धायतनम् । जंवू खलु सुदर्शनाऽन्य बेहुभिस्तिलकैलवकै वित्-राजवृक्षः हिवृक्षैः सर्वतः समन्तात् संपरिक्षिप्ता जंब्याः खलु सुदर्शनायाः उपरि बहूनि अष्टौ अप्टौ मङ्गलकानि प्रज्ञप्तानि तद्यथा-स्वस्तिक श्रीवत्स० कृष्ण चामरध्वजाः यावत-छत्रातिच्छत्राणि । ब्वाः खलु सुदर्शनायाः द्वादशनामधेयानि प्रज्ञप्तानि तद्यथा-सुदर्शना-अमोधाच सुप्रवुद्धा यशोधरा । विदेह जंबूः सौमनस्या नियता-नित्य मण्डिता ॥१॥ सुभद्रा च विशाला-मुजाताइति याः सुदर्शनायाः जब्बाः नामधेयानि द्वादश ॥२॥ तत्केनार्थेन भदन्त ! एव मुच्यते जंबूसुदर्शना-जंबू सुदर्शना ? गौतम ! जव्या सुदर्शनायां जंबू द्वीपाधि पतिः अनाहतो नामदेवो महद्धिको यावत-पल्योपसस्थितिकः परिवसति स खलु तत्र चतुर्णा सामानिकसहस्राणां यावत् जंबूद्वीपस्य जंब्वाः सुदर्शनाया: 'अनादृतायाश्च राजधान्याः यावद् विहरन्ति । कुत्र खल्ल भदन्त ! अनाहतस्य यावत् समस्ता वक्तव्यता राजधान्याः महद्धिकः। अथोत्तरं च खलु गौतम ! जंबू