________________
२३३
healfant टीका प्र. ३ उ. ३ सू. ६३ ईशानकोणे सिद्धायतनवर्णनम् महती मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भेण योजनं बाहल्येन, सर्वमणिमयी अच्छा० । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु एकोमहान् देवच्छन्दकः प्रज्ञप्तः द्वे योजने आयामविष्कम्भेण सातिरेके द्वे योजने ऊर्ध्वमुच्चत्वेन सर्वरत्नमयोऽच्छः । तत्र खलु देवच्छन्दकेऽष्टशतं जिनप्रतिमा नाम् जिनोत्सेधप्रमाणमात्राणाम् संनिक्षिप्तं तिष्ठन्ति । तासां खलु जिनप्रतिमानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - उपनीयमयानि हस्ततलानि, अङ्कसया नखाः अन्तर्लोहिताक्षप्रतिषेकाः कनकमयाः पादाः कनकमयागुल्फाः कनकमय्यो जंघाः कनकमयानि जानूनि कनकमया ऊरदः कनकमय्यो गात्र्यष्टयः तपनीयमयानाभयः रिष्टमय्यो रोमराजयः तपनीयमयाश्चूचुकाः तपनीयमयाः श्रीवत्साः कनकमया चाहाः कनकमयाः पार्श्वाः कनकमय्यो ग्रीवा: रिष्टमयं मांसम् शिलाप्रवालमया ओष्टाः स्फटिकमया दन्ताः तपनीयमथ्यो जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिषेकाः अङ्कमयानि अक्षीणि अन्तर्लोहिताक्षप्रतिषेकाणि पुलकमय्यो दृष्टयः, रिष्टमय्यस्तारिकाः रिष्टमयान्यक्षिपत्राणि रिष्टमथ्यो भ्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटाः वृत्ताः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः रिष्टमया उपरिमूर्धजाः तासां खलु जिनप्रतिमानां पृष्ठतः प्रत्येकं छत्रधरप्रतिमाः प्रज्ञप्ताः ताः खलु छत्रधरप्रतिमाः हिमरजतकुन्देन्दुप्रकाशानि । सकोरण्टकं माल्यदामधवलानि आतपत्राणि सलीलम् अवधारयन्त्यस्तिष्ठन्ति । तासां खलु जिनप्रतिमानाम् उभयोः पार्श्वयोः प्रत्येकं प्रत्येकं चामरधरप्रतिमाः प्रज्ञप्ताः ताः खलु चामरधरप्रतिमाः चन्द्रप्रभवज्रवैडूर्यनानामणिकनकरत्नविमलमहार्घतपनीयोज्ज्वलविचित्रदण्डानि चित्राणि शङ्खाङ्क कुन्दोदकरजोऽमृतमथितफेनपुञ्जनकाशानि सूक्ष्मरजतदीर्घवालानि धवलानि चामराणि सलीलम् अवधारयन्त्यस्तिष्ठन्ति । तासां खलु जिनप्रतिमानां पुरतो द्वे द्वे नागप्रति द्वे द्वे यक्षप्रतिमे ...भूतप्रति द्वे द्वे कुण्डधारप्रतिमे, विनयोपनते पादपतिते प्राञ्जलिपुटे संनिक्षिप्ते तिष्ठतः । सर्वरजतमया अच्छा: श्लक्ष्णाः लण्हाः घृष्टाः मृष्टाः नीरजस्का निष्पङ्काः यावत्प्रतिरूपा ॥ तासां खलु जिनप्रतिमानां पुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानाम् एवमष्टशतं भृङ्गारकाणामेवमादर्शानां स्थालानां पात्रीणां सुप्रतिष्ठकानां मनोगुलिकानां वातकरकाणां चित्राणां रत्नकरण्डकानां हयकण्ठकानां यावत् ऋषभकण्ठकानां पुष्पचंगेरीणां यावत् - लोमहस्तचङ्गेरीणां पुष्पपटलकाना - मष्टशतं तैलसमुद्गकानां यावत्-धूपकच्छुकानां सम्निक्षिप्तं तिष्ठति । तस्य खलु सिद्धायतनस्य खलूपरिवहन्यष्टावष्टौ मङ्गलकानि ध्वजाच्छत्रातिच्छत्राणि - उत्तमाकाराणि षोडशविधः - रत्नैरुपशोभितानि तद्यथा - रत्नैर्यावद्रिष्टैः ॥सू०६३॥
9