________________
प्रमेयद्योतिका टीका प्र.१० सू.१५३ जीवानां नवविधत्वनिरूपणम् १५२१ भदन्त ! अन्तरं कालतः कियच्चिरं भवति ? गौतम ! जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम्-उत्कर्पण वनस्पतिकालः । प्रथमसमयदेवस्य यथा प्रथमसमयनैरयिफस्य, अप्रथमसमयदेवस्य यथाऽप्रथमसमयनैरयिकस्य । सिद्धस्य खल भदन्त ! अन्तरं कालत कियच्चिरं भवति ! गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेपां खलु भदन्त ! प्रथमसमयनैरयिकाणां-प्रथमसमयतिर्यग्योनिकानांप्रथमसमयमनुष्याणां-प्रथमसमयदेवानां च कतरेकतरेभ्योऽल्पा वा-बहुका वातुल्या वा-विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, प्रथमसमयनैरयिका असंख्येयगुणाः, प्रथमसमय देवा असंख्येयगुणाः, प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः । एतेषां खलु भदन्त ! अप्रथमसमयनैरयिकाणाम् अप्रथमसमयतिर्यग्योनिकानाम्-अप्रथमसमयमनुष्याणाम् अप्रथमसमयदेवानां कतरे कतरेभ्योऽल्पा वा-बहुका वा-तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः अपू थमसमयमनुष्याः अप्रथमसमयनैरयिका असंख्येयगुणाः अप्रथमसमयदेवा असंख्येयगुणाः अप्रथमसमयतिर्यग्योनिकाः अनन्तगुणाः । एतेषां खल भदन्त ! प्रथम समयनैरयिकाणाम् अप्रथमसमयनैरयिकाणां च कतरे कतरेऽल्पावा-बहुफा वा तुल्या वा ? विशेषाधिका वा गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः अप्रथमसमयनैरयिकः असंख्येयगुणाः। एतेषां खलु भदन्त ! प्रथमसमयतिर्यग्योनिकानाम्, अप्रथमसमयतिर्यग्योनिकानां कतरेकतरेभ्योऽल्पा वा बहुका वा-तुल्या वा विशेषाधिकावा ? गौतम ! सर्वस्तोकाः प्रथमसमयतिर्यग्योनिकाः अप्रथमसमयतिर्यग्योनिका अनन्तगुणाः । मनुष्य-देवाल्पबहुत्वं यथा नैरयिकाणाम् । एतेषां खलु भदन्त ! प्रथमसमयनैरयिंकाणां-प्रथमसमयतिर्यग्योनिकानां-प्रथमसमयमनुष्यणां-प्रथमसमय देवानाम्-अप्रथमसमयनैरयिकाणाम्-अप्रथमसमयतिर्यग्योनिकानाम्-अप्रथमसमयमनुष्याणाम्-अप्रथमसमयदेवानां सिद्धानां च कतरेकतरेभ्योऽल्पा वा-बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, अप्रथमसमयमनुष्या असंख्येयगुणाः, प्रथमसमयनैरयिका असंख्येयगुणाः, प्रथमसमयदेवा असंख्येयगुणाः, प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः, अप्रथमसमयनैरयिका असंख्येयगुणाः, अप्रथमसमय देवा असंख्येयगुणाः, सिद्धा-अनन्तगुणाः, अप्रयमसमयतिर्यग्योनिका अनन्तगुणाः। त एते नवविधाः सर्वजीवाः प्रज्ञप्ताः सू० ॥१५३॥
टीका-'अहवा नवविहा सव्वजीवा पन्नत्ता तं जहा-पढमसमयणेरइया अपढमसमयणेरइया-पढमसमयतिरिक्खजोणिया-अपढमसमयतिरिक्खनोणियापढमसमयमणूसा-अपढमसमयमणूसा-पढमसमयदेवा-अपढ़मसमय देवा-सिद्धाय'
ली० १९१