________________
प्रमैयद्योतिका टीका प्र.१० सु.१५० जीवानां सप्तविधत्वनिरूपणम् १४७७ काउलेस्सा अर्गतगुणा नीललेस्ला विससाहिया कण्हलेस्ला विसेंसाहिया। से तं सत्तविहा सवजीवा ।। सू० १५०॥ __ छाया-तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञप्ताः ते एवमुक्तवन्तः तद्यथा-पृथिवीकायिका अप्कायिका:-तेजस्कायिकाः-वायुकायिका:वनस्पतिकातिका:-सकायिका:-अकायिकाः । संचिट्ठणान्तरे यथाऽधस्तात् । अल्पवहुत्वम् सर्वस्तोकास्त्रसकायिकाः, तेजस्कायिका असंख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिकाः सिद्धा अनन्तगुणाः वनस्पतिकायिका अनन्तगुणाः । अथवा-सप्तविधाः सर्वजीवा प्रज्ञप्ताः, तद्यथा-कृष्णलेश्याः, नीललेश्याः, कापोतलेश्याः, तेजोलेश्याः, पद्मलेश्याः, शुक्ललेश्याः अलेश्याः। कृष्णलेश्यः खलु भदन्त ! कृष्णलेश्य इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्पण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहुर्ताभ्यधिकानि नीललेश्यः खलु जघन्येनान्तमुहूर्तम् उत्कर्षेण दशसागरोपमाणि पल्योपमस्याऽसंख्येयभागाभ्यधिकानि कापोतलेश्यः खलु० जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रीणि सागरोपमाणि पल्योपमस्याऽसंख्येयभागाभ्यधिकानि तेजोलेश्यः खल भदन्त ! जघन्येनान्तर्मुहूर्तम् उत्कर्षण द्वे सागरोपमे पल्योपमस्याऽसंख्येयभागाभ्यधिके । पालेश्यः खलु भदन्त ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण दशसागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि । शुक्ललेश्यः खलु भदन्त ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि । 'अलेश्यः खलु भदन्त ! सादिकोऽपर्यवसितः। कृष्णलेश्यस्य खलु भदन्त ! अंतरं कालतः कियच्चिरं भवति-जघन्येनान्तर्मुहूर्तमुत्कर्पण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताऽभ्यधिकानि । एवं नीलधेश्यस्यापि कापोतलेश्यस्यापि । तेजोलेश्यस्य खलु भदन्त ! अंतरं कालतः जघन्येनान्तर्मुहूर्तमुत्कर्षण वनस्पतिकालः। एवं पद्मलेश्यस्यापि शुक्ललेश्यस्यापि द्वयोरप्येवमन्तरम् । अलेश्यस्य खलु भदन्त । अंतरं कालतः गौतम ! सादिकस्याऽपर्यासितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! जीवानां कृष्णलेश्यानां नीललेग्यानां कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानाम् अलेश्यानां च कतरेकतरेभ्योल्पाः० गौतम ! सर्वस्तोकाः शुक्ललेश्याः, पद्मलेश्याः संख्येयगुणाः, तेजोलेश्याः संख्येयगुणाः अलेश्या अनन्तगुणाः कापोतलेल्याः अनन्तगुणाः, नीललेश्या विशेषाधिकाः कृष्णलेश्या विशेपाधिकाः । त एने सप्तविधाः सर्वजीवाः प्रज्ञप्ताः सू० १५०॥