________________
૨૮૯
जीवाभिगम
जोणिया अनंतगुणा । से तं अट्टविहा संसारसमावणगा जीवा पन्नत्ता | अटूविह पडिपत्ती समत्ता ॥ सू० १३७ ॥
छाया - तत्र ये ते एवमुक्तवन्तः - अष्टविधाः संसारसमापन्नका जीवास्ते एवमुक्तवन्तः प्रथमसमयनैरथिकाः अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका : अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्याः अप्रथमसमयमनुप्याः, प्रथमसमयदेवाः अप्रथमसमयदेवाः । प्रथमसमयनैरयिकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! प्रथमसमयनैरयिकस्य जघन्येनैकं समयम् - उत्कर्पेणैकं समयम्, अप्रथमसमयनैरथिकस्य जघन्येन दशवर्षसहस्राणि समयोनानि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि समयोनानि । प्रथमसमयतिर्यग्योनिकस्य जघन्येनैकं समयम् उत्कर्षेणैकं समयम् अप्रथमसमयतिर्यग्योनिकस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम् - उत्कर्षेण त्रीणि पल्योपमानि समयोनानि एवं मनुष्याणामपि यथा तिर्यग्योनिकानाम् देवानां यथा नैरयिकाणां नैरयिक- देवयोर्यैव स्थितिः सैव संस्थितिः द्विविधयोरपि । प्रथमसमयतिर्यग्योनिकः खलु भदन्त ! प्रथमसमयतिर्यग्योनिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनैकं समयम् उत्कर्षेणैकं समयम् अप्रथमसमय तिर्यग्योनिकस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम् उत्कर्षेण वनस्पतिकालः । प्रथमसमयमनुष्याणां जघन्येनैकं समयम् - उत्कर्षेणैकं समयम्, अप्रथमसमयमनुष्यस्य जघन्येन क्षुल्लकं भवग्रहणं समयोनम्उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि । अन्तरं प्रथमनैरयिकस्य जघन्येन दशवर्षसहस्राणि - अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण वनस्पतिकालः । अप्रथमसमयनैर विकस्य जघन्येनान्तर्मुहूर्तम् - उत्कर्षेण वनस्पतिकालः । प्रथमसमयतिर्यग्योनिकस्य जघन्येन द्वे क्षुल्लकभवग्रहणे समयोने- उत्कर्षेण वनस्पतिकालः । अप्रथमसमयतिर्यग्योनिकस्य जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम् - उत्कर्षेण सागरोपमशतपृथक्त्वं सातिरेकम् । प्रथमसमयमनुष्यस्य जघन्येन द्वे क्षुल्लके भवग्रहणे समयोने उत्कर्षेण वनस्पतिकालः । अप्रथमसमय मनुष्यस्य जघन्येन क्षुल्लकं भवग्रहणं समयाधिकम् - उत्कर्षेण वनस्पतिकालः । देवानां यथा नैरयिकाणाम् जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण वनस्प तिकालः | अप्रथमसमय देवानां जघन्येनान्तर्मुहूर्तम् - उत्कर्षेण वनस्पतिकालः । अल्पबहुत्वम् - एतेषां खलु भदन्त ! प्रथमसमयनैरयिकाणां यावत्प्रथमसमयदेवानां च कतरे कतरेभ्योऽल्पा वा यावद्विशेपाधिका वा ? गौतम ! सर्वस्तोकाः प्रथमसमयमनुप्याः प्रथमसमयनैरयिका असंख्येयगुणाः, प्रथमसमयदेवा असं - ख्येयगुणाः, प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः । अप्रथमसमयनैरयिकाणां