________________
प्रमेयद्योतिका टीका प्र.५ सू.१३५ सामान्यतो निगोदस्वरूपनिरूपणम् १२५७ सुहमणिोया पज्जत्ता पएसटुयाए संखेज्जगुणा। से तं छविहा संसारसमावण्णगा ॥सू० १३५॥ ___ छाया-निगोदाः खलु भदन्त ! द्रव्यार्थतया कि संख्येया असंख्येया अनन्ता ? गौतम ! नो संख्येया असंख्येया नो अनन्ताः, एवं पर्याप्तका अपि अपर्याप्तका आपि सूक्ष्मनिगोदाः खलु भदन्त ! द्रव्यार्थतया कि संख्येया असंख्येया अनन्ताः ? गौतम ! नो संख्येया असंख्येया नो अनन्ताः, एवं पर्याप्तका अपि अपर्याप्तका अगि, एवं वादरा अपि पर्याप्तका अपि अपर्याप्तका अपि नो संख्येया असंख्येया नो अनन्ताः । निगोदजीवाः खलु भदन्त ! द्रव्यर्थतया किं संख्येया असंख्येया अनन्ताः ? गौतम ! नो संख्येया नो असंख्येया अनन्ताः, एवं पर्याप्तका अपि अपर्याप्तका अपि, एवं सूक्ष्मनिगोदजीवा अपि पर्याप्तका अपि, अपर्याप्तका अपि, बादरनिगोदजीवा अपि पर्याप्तका अपि अपर्याप्तका अपि । निगोदाः खलु भदन्त ! प्रदेशार्थतया किं संख्येया० १ पृच्छा ? गौतम ! नो संख्येया नो असंख्येया अनन्ताः, एवं पर्याप्तका अप्यपर्याप्तका अपि । एवं सूक्ष्म निगोदा अपि पर्याप्तका अपि-अपर्याप्तका अपि च, प्रदेशार्थतया सर्वेऽनन्ताः, एवं बादरनिगोदा अपि पर्याप्तका अपि अपर्याप्तका अपि, प्रदेशार्थतया सर्वेऽनन्ताः, एवं निगोदजीवा नवविधा अपि प्रदेशार्थतया सर्वेऽनन्ताः । एतेषां खलु भदन्त ! निगोदानां सूक्ष्माणां बादराणां पर्याप्तकानामपर्याप्तकानां द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया कतरे कतरेभ्योऽल्पा वा तुल्या वा विशेपाधिका वा ? गौतम ! सर्वस्तोका बादरनिगोदपर्याप्तका द्रव्यार्थतया, बादरनिगोदअपर्याप्तका द्रव्यार्थतया असंख्येयगुणाः, सूक्ष्मनिगोदा अपर्याप्तका द्रव्यायतया असंख्येयगुणाः, सूक्ष्मनिगोदाः पर्याप्तका द्रव्यार्थतया संख्येयगुणाः, एवं । प्रदेशार्थतयाऽपि । द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदाश्च पर्याप्ताः, द्रव्यार्थतया यावत्सूक्ष्मनिगोदाः पर्याप्ताश्च द्रव्यार्थतया संख्येयगुणाः, सूक्ष्मनिगो' देभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादर निगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः. यावत्सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः । एवं निगोदजीवा अपि, नवरं संक्रमे यावत्सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया निगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसंख्येयगुणाः, शेष तयैव-यावत्सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया संख्येयगुणाः। एतेषां खलु भदन्त ! निगोदानां सूक्ष्माणां बादराणां पर्याप्तानामपर्याप्तानां निगोदजीवानां सूक्ष्माणां वादराणां पर्याप्तकानामपर्याप्तकानां द्रव्यार्थतया प्रदेशार्थतया कतरे कमरेभ्योऽल्पा वा-बहुका वा यावद्
जी० १५८