________________
૬
जीवामिगमसूत्रे
याणं वणस्सइकालो-तसकाइयाण वि, वणस्सइकाइयस्स पुढवीकाइयकालो | एवं अपज्जत्तगाण वि वणस्सइकालो, वणस्सईणं पुढवीकालो, पज्जन्त्रगाण वि एवं चेत्र वणस्सई कालो, पज्जत्तवणसई णं पुढची कालो ॥सू० १२८ ॥
छाया - तत्र खलु ये ते एवमुतवन्तः पविधाः संसारसमापन्नका जीवास्त एवमुक्तवन्तः तद् यथा- पृथिवीकायिका अष्कायिकास्तेजस्कायिका वायुकायिका वनस्पतिकायिका स्त्रसकायिकाः अथ के ते पृथिवीकायिकाः ? पृथिवीकायिका द्विविधा प्रज्ञप्ताः तद् यथा - सूक्ष्मपृथिवीकाथिका बादरपृथिवीकायिकाः । सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः तद्यथा - पर्याप्तकाचाऽपर्याप्तकाश्च । एवं बादरपृथिवीकायिका अपि, एवं चतुष्केण भेदेन - अप्तेजोवायुवनस्पतिकायिकानां चतुष्को भेदो नेतव्यः । अथ के ते सकायिकाः ? सकायिका द्विविधाः प्रज्ञप्ताः तद्यथा - पर्याप्तकाश्चाऽपर्याप्तकाश्च । पृथिवीकायिकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता: ? गौतम ! जघन्येनाऽन्तर्मुहूर्तम् उत्कर्षेण द्वार्षिशतिर्वपसहस्राणि, एवं सर्वेषां स्थितिर्नेतव्या । त्रसकायिकस्य जघन्ये नान्तर्मुहूर्तम् उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि, अपर्याप्तकानां सर्वेषां जघन्येनापि - उत्कपेणाप्यन्तर्मुहूर्तम् पर्याप्तकानां सर्वेषामुत्कृष्टास्थितिरन्तर्मुहूर्तोना कर्तव्या । पृथिवीकायिकः खलु भदन्त ! पृथिवीकायिक इति कालतः क्रियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षेण संख्येयं कालं यावदसंख्येयाः लोकाः । एवं यावद् अप्तेजोवायुकायिकानाम् वनस्पतिकायिकानामनन्तं कालं यावद् - आवलिकाया असंख्येयो भागः । जसकायिकः खलु भदन्त !० जघन्येनान्तर्मु हूर्तम् उर्पेण द्वे सागरोपमसहस्रे संख्येवरधिके । अपर्याप्तकानां पण्णामपि - जघन्येनाऽपि उत्कर्षेणाऽपि अन्तर्युहूर्तम् पर्याप्तकानां वर्षसहस्राणि संख्येयानि पृथिव्युदका निलतरूणाम् पर्याप्तानाम् तेजोरात्रिंदिवसंख्येयानि ससागरशतपृथक्त्वानि १ । पर्याप्तकानामपि सर्वेपासेवम् । पृथिवीकायिकरय खलु भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम ! जघन्येनाऽन्तर्मुहूर्तम् - उत्कर्षेण वनस्पतिकालः । एवमप्तेजोवायुकायिकानां वनस्पतिकालः, त्रसकायिकानामपि वनस्पतिकायस्य पृथिवीकायिककालः । एवमपर्याप्तकानामपि वनस्पतिकालः, वनस्पतीनां पृथिवीकालः । पर्याप्तकानामपि - एवमेव वनस्पतिकालः पर्याप्तवनस्पतीनां पृथिवीकाल: ||० १२८॥
टीका- 'तत्थ णं जे ते एवं आसु छन्विहा संसारसमावण्णगा जीवा ते एवमासु तं जहा - पुढवीकाइया आउक्काइया तेउ० वाउ वणस्सइकाइया तसका
-