________________
प्रमैयद्योतिका टीका ५ ३ उ.. सु. ११९ शक्रादिदेवानां परिषदादिनि० १०२१
छाया-शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्य कतिपर्षदः प्रज्ञप्ताः ? गौतम ! तिस्रः पर्षदः प्रज्ञप्ताः तद्यथा-समिता चण्डा जाता, आभ्यन्तरिका समिता, माध्यमिका चण्डा, वाह्या जाता । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्पदि कति देवसहस्राणि प्रज्ञप्तानि ? मध्यमिकायां पर्षदि कंतिदेवसहस्राणि प्रज्ञप्तानि, तथैव वाह्यायां पृच्छा, गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्य आभ्यन्तरिकायां पर्षदि द्वादश देवसहस्राणि प्रज्ञप्तानि, माध्यमिकायां पर्षदि चतुर्दश देवसहस्राणि २ प्रज्ञप्तानि, वाह्यायां पर्पदि षोडश देवसहस्राणि प्रज्ञप्तानि, तथाऽभ्यन्तरिकायां पर्पदि सप्तदेवी शतानि माध्यमिकायां पड़ देवी शतानि वाह्यायां पंचदेवी शतानि प्रज्ञप्तानि । शक्रस्य खलु भदन्त ! देवेन्द्रस्य देवराजस्याभ्यन्तरिकयां पर्पदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ताः ? एवं माध्यमिकायां बाह्यायामपि गौतम ! शक्रस्य देवेन्द्रस्य देवराजस्याभ्यन्तरिकायां पर्पदि पंचपल्योपमानि स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्षदि चत्वारि पल्योपमानि स्थितिःप्रज्ञप्ता:-बाह्यायां पर्षदि देवानां सागरोपमाणि षट् पल्योपमानि स्थितिः प्रज्ञप्ता-वाह्यायां पर्षदि द्वादश सागरोपमाणि पञ्चपल्योपमानि स्थितिः प्रज्ञप्ता । महाशुक्रस्यापि यावत्तिस्रः पर्षदो यावदाभ्यन्तरिकायाम् एकं देवसहस्रम् माध्यमिकायां द्वे देवसहस्र प्रज्ञप्ते बाह्यायां चत्वारि देवसहस्राणि आभ्यन्तरिकायां पर्पदि अर्धषोडशसागरोपमाणि पंचपल्योपमानि माध्यमिकायामर्धषोडश सागरोपमाणि चत्वारि पल्योपमानि वाह्यायामर्धपोडशसागरोपमाणि त्रीणि पल्योपमाणि अर्थः स एव । सहस्रारे पृच्छा यावद आभ्यन्तरिकायां पर्पदि पञ्चदेवशतानि माध्यमिकायां पर्षदि एक देवसहस्रम्, वाह्यायां द्वे देवसहस्र प्रज्ञप्ते स्थितिराभ्यन्तरिकायामर्धाष्टादशसागरोपमाणि सप्तपल्योपमानि स्थितिः प्रज्ञप्ता एवं माध्यमिकायाम_ष्टादश-पटू पल्योपमानि, वाह्यायामर्धाष्टादशसागरोपमाणि पश्च पल्योपमानि अर्थः स एव । आनताणतस्यापि पृच्छा यावत्तिस्रः पर्षदः, नवरम्-आभ्यन्तरिकायामधेतृतीयानि देवशतानि माध्यमिकायां पंचदेवशतानि वाह्यायामेकं देवसहस्रं स्थितिः आभ्यन्तरिकायामेकोनविंशतिः सागरोपमाणि पञ्च च पल्योपमानि एवं माध्यमि० एकोनविंशतिः सागरोपमाणि चत्वारि च पल्योपमानि, बाह्यायां पर्पदि एकोनविंशतिः सागरोपमाणि त्रीणि च पल्योपमानि स्थितिः, अर्थः स एव । कुत्र खलु भदन्त ! आरणाच्युतयोर्देवयोस्तथैवाच्युतः स परिवारो यावद् विहरति अच्युतस्य खल देवन्द्रस्य तिस्रः पर्पदः प्रज्ञप्ताः आभ्यन्तरपर्षदि देवानां पञ्चविंशं शतम्, माध्यमिकायामतृतीयानि शतानि बाह्यायां पञ्चशतानि आभ्यन्तरिकायामेकविंशतिः सागरोपमाणि सप्त च पल्योपमानि माध्यमिकायामेकविंशतिः सागरोपमाणि पट् पल्योपमानि वाह्यायामेकविंशतिः सागरोपमाणि पश्च च पल्योपमानि स्थितिः प्रज्ञप्ता । कुत्र खलु भदन्त ! अधस्तनौवेयकाणां देवानां विमानानि प्रज्ञप्तानि कुत्र