________________
प्रमेयद्योतिका टीका प्र.३ उ.३ २.५७ विजयद्वारपाचीस्थितनैषेधिक्याः नि० ८५ प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठकाः वैड्यमयाः स्तम्भकाः वनमयाः वराङ्गाः नानामणिमया वलक्षाः अङ्कमयानि मण्डलानि अनवधर्पित निर्मलया छायया सर्वत एव समनुबद्धा श्चन्द्रमण्डलप्रतिनिकाशा: महता महता अर्द्धकायसमाना: प्रज्ञप्ताः श्रमणायुष्मन् । तेषां खलु तोरणानां पुरतो द्वे द्वे वनमये स्थाले प्रज्ञप्ते । तानि खलु स्थालानि अच्छत्रिछटित शालि तन्दूलनखसंदप्ट बहुसमपरिपूर्णानीच तिष्ठन्ति सर्वजाम्बूनदमयानि अच्छानि यावत्प्रतिरूपाणि, महता महता रथचक्रसमानानि श्रमणायुष्मन् ! । तेषां खलु तोरणानां पुरतो द्वे द्वे पाच्यौ प्रज्ञप्ते । याः खलु पात्र्यः अच्छोदकपरिपूर्णाः नानाविधपञ्चवर्णैः हरितफलैबहुप्रतिपूर्णा इव तिष्ठन्ति सर्वरत्नमय्यो यावत्पतिरूपाः महता महता गोकलिञ्जकचक्रसमानाः प्रज्ञप्ताः श्रमणायुप्मन् ! । तेषां खलु तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको प्रज्ञप्तौ, ते खलु सुप्रतिष्ठकाः नानाविध पञ्चवर्णप्रसाधनक भाण्डविरचिताः सौंषधिप्रतिपूर्णाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । तेषां खलु तोरणानां पुरतो द्वे द्वे मनोगुलिके प्राप्ते, तासु खल्ल मनोगुलिकासु वहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञतानि तेषु खलु सुवर्णरूप्यमयेषु फलकेषु वहवो वज्रमया नागदन्ता मुक्ताजालान्तरोत्सृता हेम यावत् गजदन्तकसमानाः प्रज्ञप्ताः श्रमणायुष्मन् ! । तेषु खलु वज्रमयेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु खलु रजतमयेषु सिक्ककेषु बहवो वातकारकाः प्रज्ञताः। ते खलु वातकारकाः कृष्णसूत्रसिक्कगयस्थिताः यावच्छुक्लसूत्रसिकगवस्थिताः सर्व वैडूर्यमयाः अच्छा यावत्प्रतिरूपाः तेपां खलु तोरणानां पुरतोद्वौ द्वौ चित्रौ रत्नकरण्डको प्रज्ञप्तौ, स यथानामकः राज्ञश्चातुरन्तचक्रवर्तिनः चित्रो रत्नकरकण्डको वैडूर्यमणिस्फटिक पटलमयाच्छादनः स्वकीयया प्रभया तान् प्रदेशान् सर्वतः समन्तात् भासयति उद्योतयति तापयति प्रभासयति, एवमेव ते चित्ररत्नकरण्डकाः प्रज्ञप्ता: वैडूर्य पटलमयाच्छादनाः स्वया प्रभया तान् प्रदेशान् सर्वतः समन्तात् अबमासयन्ति । तेषां खल तोरणाना पुरतो द्वौ द्वौ हयकण्ठको यावत् ऋपभकण्ठको प्रज्ञप्तौ, सर्वरत्नमयौ अच्छौ यावत् प्रतिरूपौ। तेषु खलु हयकण्ठकेषु यावत् वृपभकण्ठकषु द्वे द्वे पुष्पचङ्गेथ्यौँ, एवं माल्यगन्धचूर्णवस्त्राभरणचङ्गेर्यः सिद्धार्थकचनेर्यः लोमहस्तकचनेर्यः सर्वरत्नमय्यः अच्छा यावत प्रतिरूपाः। तेपां खलु तोरणानां पुरतो द्वे द्वे पुष्पपटले यावल्लोमहस्त पटलानि सर्वरत्नमयानि यावत् प्रतिरूपाणि । तेषां खलु तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञते । तेषां खलु सिंहासनाना मयमेतावद्रूपो वर्णावासः प्रज्ञप्त स्तथैव यावत् प्रासादीयाः४। तेषां खलु तोरणानां पुरतो द्वे द्वे रूप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यदीप्यमानविमलदण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनि मुक्ता