________________
प्रमेयद्योतिका टीका प्र० २
नपुंसकानां स्थितिनिरूपणम् ५४५
कालओ केवच्चिरं होई ? गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडिपुहुत्तं, धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं उक्कोसेणं देणा पुव्वकोडी | एवं कम्म भूमिगभरहे वयपुव्वविदेहावरविदेहेसु विभाणियव्वं । अकम्मभूमिगमणुस्सणपुंसएणं भंते! अकम्मभूमिगमणुस्सण पुंसपत्ति कालओ केवच्चिरं होई गोयमा ! जम्मणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं मुहुत्त पुहुत्तं साहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी । एवं सव्वेसिं जाव अंतरदीवगाणं' ॥ सू० १५ ॥
छाया - नपुसकः खलु भदन्त ! नपुंसक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनैकं समयमुत्कर्षेण तरुकालः नैरयिकनपुंसकः खलु भदन्त ! नैरयिकनपुंसक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येन दशवर्षसहस्राणि उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि ! एवं पृथिव्याः स्थितिर्भणितव्या ! तिर्यग्योनिकनपुंसकः खलु भदन्त ! तिर्यग्योनिकनपुंसक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, एवमेकेन्द्रियनपुंसकस्य खलु वनस्पतिकायिकस्यापि एवमेव । शेषाणां जघन्ये नान्तर्मुहूर्तमुत्क - र्षेणासंख्येयं कालम् असंख्यात उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रत असंख्येया लोकाः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियनपुंसकानां च जघन्येनान्तर्मुहूर्तमुत्कर्पेण संख्येयं कालम् । पञ्चेन्द्रि यतिर्यग्योनिकनपुंसकः खलु भदन्त ! पञ्चेन्द्रियतिर्यग्योनिक इति कालतः कियच्चिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण पूर्वकोटिपृथक्त्वम् । एवं जलचर तिर्यक्चतुष्पदस्थलचरोरः परिसर्पभुजपरिसर्पमहोरगाणामपि । मनुष्यनपुंसकस्य खलु भदन्त ! मनुष्यनपुंसक इति कालतः कियच्चिरं भवति ? गौतम ! क्षेत्र प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेण पूर्वकोटिपृथक्त्वम् । धर्मचरणं प्रतीत्य जघन्येनैक समयमुत्कर्पेण देशोना पूर्वकोटिः, एव कर्मभूमिकभरतैरवत पूर्वविदेहापर विदेहेषु अपि भणितव्यम् । अकर्मभूमिकमनुष्यनपुंसकः खलु भदन्त ! अकर्मभूमिकमनुष्यनपुंसक इति कालतः कियच्चिरं भवति गौतम ! जन्मप्रतीत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षेण मुहूर्त्त पृथक्त्वम् । संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षेण देशोना पूर्वकोटि एवं सर्वेषां यावदन्तरद्वीपकानाम् ॥१५॥
६९