________________
२३६
__ भेगवतीसूत्रे आत्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा एका महती रज्जु प्राचीप्रतीच्यायतां द्विधातो लोकान्ते स्पृष्टां पश्यन् पश्यति छिन्दन् छिन्नत्ति छिन्नमित्यात्मानं मन्यते तत्क्षणमेव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महत् कृष्णसूत्र वा जात्र शुक्लसूत्रकं वा परन् पश्यति उद्वोपयन् उगोपयति उद्गोषितमित्यात्मानं मन्यते तत्क्षणमेव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तम् अयोराशि वा ताम्रराशि वा अपुकराशि वा सीसकराशि वा पश्यन् पश्यति दूरोहन दृरोहति दढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयने द्वितीयेन भवग्रहणेन सिद्धयति यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्तं हिरण्यराशि वा सुवर्णराशि वा रत्नराशि वा वैडूर्यराशि वा पश्यन् पश्यति दुरोहन दूरोहति दुरूढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव भवग्रहणेन सिद्धयति यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं तृगराशिं वा यथा तेजोनिसर्ग यावद् अवकरराशिं वा पश्यन् पश्यति विकिन विकिरति विकीर्णमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं कराति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्तं शरस्तंभ वा वीरगस्तंभ वा वंशीमूलस्तंभ वा वल्लीमूलस्तंभ वा पश्यन् पश्यति उन्मूलयन् उन्मूलयति उन्मूलितमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं क्षीरकुम्भं वा घृतकुम्भं वा दधिकुम्भ वा मधुकुम्भ वा पश्यन् पश्यति उत्थापयन् उत्थापयति उत्थापिवमित्यास्मानं मन्यते तत्क्षणमेव बुद्धय ने तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महान्तं सुराविकृतकुम्भ वा सौवीरविकृतकुम्भं वा तेल्ल. कुम्भं वा वसाकुम्भं वा पश्यन् पश्यति भिन्दन भिन्नमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते द्वितीयेन भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महत् पलमुमितं पश्यन् पश्यति अश्गाहमानोऽवगाहते
आगाढमित्यात्मानं मन्यते तत्क्षगमे व बुद्रयते तेनैव भवग्रहणेन यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एक महान्त सागरम् अमिरीचि पावत् कलितं पश्यन् पश्यति तरन् तरति तीर्णमिन्यात्मानं मन्यने तत्क्षणमे बुद्धयते तेनैव भवग्रहणेन यावदन्त करोति । स्त्रो वा यावत् स्वप्नान्ते एक महद् भवनं सर्वरत्न. मयं पश्यन पश्यति अनुपविशन् अनुपविशति अनुपविष्टमित्यात्मानं मन्यते तत्क्षणमेव वुद्यते तेनैव यावदन्तं करोति । स्त्री वा पुरुषो वा स्वप्नान्ते एकं महद् विमानं सर्वरत्नमयं पश्यन् पश्यति दोहन् दृरोहति दूरूढमित्यात्मानं मन्यते तत्क्षणमेव बुद्धयते तेनैव यावदन्तं करोति ।। सू० ४॥