________________
भगवतीसूत्रे अंबधिदर्शनिनश्च च्यावयितव्याः शेषं तदेव, असंख्येयविस्तृतेषु एवमेव त्रीणि गमकोनि, नारं त्रिवपि गमकेपु असंख्येया भणितव्याः, अवविज्ञानिनथ, अवधिदर्श:निनश्च संख्येयाश्यवन्ति, शेषं तदेव, एवं यथा सौधर्मवक्तव्यता भणिता तथा ईशानेऽपि पट् गमकानि भणितव्यानि, सनत्कुमारे एवञ्चैत्र, नवरं स्त्रीवेदका न उपपद्यन्ते, मज्ञप्तेषु च न भण्यन्ते, असंज्ञिनस्त्रियपि गमकेषु न भण्यन्ते, शेपं तदेव, एवं यावत् सहसारे, नानात्वं विमानेषु, लेश्यासु च , शेपं तदेव, आनतमाणतेषु खलु भदन्त ! कल्पेषु कियन्ति विमानावासशतानि मज्ञप्तानि ? हे गौतम ! चत्वारि विमानावासशतानि प्रज्ञतानि, ते खलु भदन्त ! कि संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृता अपि, असंख्पेयविस्तृता अपि, एवं संख्येयविस्तृतेषु त्रीणि गमकानि यथा सहस्रारे असंख्येयविस्तृतेपु, विमानेषु उपपद्यन्तेषु च च्यवन्तिषु च एवं चैन संख्येया भणितव्याः, मज्ञप्तेपु असंख्येयाः, नवरं नो इन्द्रियोपयुक्ताः, अनन्तरोपपनकाः, अनन्तरायगाहाः, अनन्तराहारकाः, अनन्तरंपर्याप्तकाश्च एतेषां जघन्येन एको वा, द्वौ वा, यो वा, उत्कृष्टेन संख्येयाः प्रज्ञप्ता, शेषाः असंख्येया भणितव्याः , आरणाऽच्युतेपु एवं चैव यथाऽऽनतमाणतेषु, नानात्वं विमानेपु, एवं ग्रैवेयंका अपि, कति खलु भदन्त ! अनुत्तरविमाना: मज्ञप्ताः ? गौतम ! पञ्च अनुत्तरविमानाः प्रज्ञप्ताः ते खलु भदन्त ! कि संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृतश्च, असंख्येयविस्तृताथ पञ्चमु खलु भदन्त । अनुत्तरविमानेषु संख्येयविस्तृते विमाने एकसमयेन कियन्तः अनुत्तरोपपातिका देवा उपपद्यन्ते ? कियन्तः शुक्ललेश्या उपपद्यन्ते ? पृच्छा, तथैव, गौतम ! पञ्चसु खलु अनुत्तरविमानेषु संख्येयविवृस्ते अनुत्तरविमाने एकसमयेन जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येयाः अनुतरोपपातिकाः देवाः उपपद्यन्ते, एवं यथा ग्रैवेयकविमानेषु संख्येयविस्तृतेषु, नवरं कृष्णपाक्षिकाः, अभवसिद्धिकाः त्रिषु अज्ञानेषु एते न उपपद्यन्ते, न च्यवन्ति, न प्रज्ञप्तेषु भणितब्यार, अचरमा अपि प्रतिपिध्यन्ते, यावत् संख्येयाः चरमा: प्रज्ञप्ताः, शेष संदे, असंख्येयविस्तृतेष्वपि एते न भण्यन्ते, नवरम् अचरमाः सन्ति, शेषं यथा अवेयकेषु असंख्येयविस्तृतेषु यावत् असंख्येयाः अचरमाः प्रज्ञप्तीः, चतुष्पटौ खलु भदन्त ! असुरकुमारावासशतसहस्रेषु संख्येयविस्तृतेषु असुरकुमारावासेषु किं सम्यग्दृष्टया असुरकुमाराः उपपद्यन्ते ? मिथ्यादृष्टयः, एवं यथा रत्नप्रभायां त्रय आलापका भणितास्तथा भणितव्याः, एवम् असंख्येयविस्तृतेष्वपि त्रीणि गमकानि, एवं यावत् अवेयकविमानेषु, अनुचरविमानेषु एवमेव, नवरं त्रिष्वपि आलापकेषु मिथ्यादृष्टयः सम्यग् मिथ्यादृष्टयश्च न भण्यन्ते,