________________
"
प्रमेयचन्द्रिका टीका श० ११८० ११ ० ६ सुदर्शन चरितभिरूपणम् अदरसामन्ते नानामणिरत्नमण्डिताम् अधिकमेक्षणीयां महार्घत्ररपत्तनोद्गताम्, सूक्ष्मपबहुभक्तिशत चित्रिताम् ईहामृगपभ यावत् भक्तिचित्राम् आभ्यन्तरिकीम् यवनिकाम् आकर्षयति, आकृष्य नानामणिरत्नभक्तिचित्रम्, आस्तरणमृदुकमम्रर वस्त्रखण्डावस्तृतम्, श्वेतवस्त्रमत्यवस्तृतम्, अङ्गसुखस्पर्शम्, सुमृदुकं प्रभावत्यै देव्यै भद्रासनं रचयति, रचयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा एवम् अत्रादीत् क्षिप्रमेव भो देवानुपियाः ! अष्टाङ्ग महानिमित्तसूत्रार्थधारकान् विविधशास्त्रकुशलान्, स्वप्नलक्षणपाठकान् शब्दयत । ततः खलु ते कौटुम्बिकपुरुषाः, यावत् प्रतिश्रुत्य वलस्य राज्ञ अन्तिकात् प्रतिनिष्क्राम्यंति, प्रतिनिष्क्रम्य शीघ्रं त्वरितं चपलं, चण्डं वेगितं हस्तिनापुरं नगरं मध्यमध्येन यत्रैव तेषां स्वप्नलक्षणपाठकानां गृहाणि तत्रैव उपागच्छन्ति, उपागत्य तान् स्वप्नलक्षणपाठकान् शब्दयन्ति, ततः खलु ते स्वप्नलक्षणपाठकाः बलस्य राक्षः कौटुम्बिक पुरुषैः शब्दयिताः सन्तः हृष्टतुष्टाः स्नाताः कृत यावत् शरीराः सिद्धार्थ कहरितालिकाकृत मङ्गलमूर्द्धानः- स्वेभ्यः स्वेभ्पो गृहेभ्यो निर्गच्छन्ति, निर्गत्य हस्तिनापुरं नगरं मध्यमध्येन यत्रैव बलस्य राज्ञो भवनवरावतंसकस्तत्रैव उपागच्छन्ति, उपागत्य भवननवरा प्रतिद्वारे एकतो मिलन्ति, मिलित्वा यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छन्ति, उपागत्य करतल यावत् बलं राजानं जयेन विजयेन वर्द्धयन्ति । ततः खलु स्वप्नलक्षणपाठकाः वलेन राज्ञा वन्दितपूजितसत्कारित सम्मानिताः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति । ततः खलु स बलो राजा प्रभावती देवीं यवनिकान्तरे स्थापयति, स्थापयित्वा पुष्पफलमतिपूर्णहस्तः परेण विनयेन तान् स्वप्नलक्षणपाठकान् एवम्-अवादीत एवं खलु देवानुमियाः ! प्रभावती देवी अद्य तस्मिन् तादृशके वासगृहे यावत् सिंह स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा, तत् खलु देवानुप्रियाः ! एतस्य उदारस्य यावत् किं मन्ये कल्याणः फलवृत्तिविशेषो भविष्यति । ततः खलु स्वप्नलक्षणपाठकाः वलस्य राज्ञः अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टाः तस्वप्नम् अवगृह्णन्ति, अवगृह्य ईहाम् अनुप्रविशन्ति, अनुपविश्य तस्य स्वप्नस्य अर्थावग्रहणं कुर्वन्ति कृत्वा अन्योन्येन सार्द्धं संचारयन्ति, संचार्य तस्य स्वप्नस्य लब्धार्थाः, गृहीतार्थाः पृष्टार्थाः, विनिर्णीतार्थाः, अभिगतार्थाः बलस्य राज्ञः पुरतः स्वप्नशास्त्राणि उच्चारयन्तः उच्चारयन्तः एत्रम् अवादिषु'- एवं खलु देवानुमियाः ! अस्माकं स्वप्नशास्त्रे द्वाचत्वारिंशत् स्वप्नाः, त्रिंशत् महास्वप्नाः, द्वासप्ततिः सर्वस्वप्नाः दृष्टाः, तत्र खलु देवानप्रियाः । तीर्थकरमातरो वा, चक्रवर्तिमातरो वा तीर्थकरे वा, चक्रवर्तिनि वा गर्भम् व्युत्क्राम्यति एतेषां त्रिशतो महास्वप्नानाम् इमान चतुर्द्दशमहास्वप्नान् दृष्ट्वा खलु
६१५