SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ હે मंगवती चितरजखाणे रक्तांशुकसंवृते, सुरम्ये, अजिनक - रूतचूरनवनीत तूलस्पर्श, सुगन्धिवरकुसुमचूर्णशयनोपचारकलिते भर्द्धरात्रकालसमये सुप्तजागरा निद्राती निद्राती इदमेतद्रूपम् उदारं कल्याणं शिवं धन्यं मङ्गलं सश्रीकं महावनं पश्यन्ती प्रतिबुद्धा, हाररजतक्षीरसागर - शशाङ्क किरण- दकरजो- रजतमहाशैल - पाण्डुरतरोरु रमणीयप्रेक्षणीयम्. स्थिरलष्टम कोष्ठवृत्तपीवर - सृश्लिष्ट विशिष्टतीक्ष्णदंष्टाविडम्बितमुखं परिकर्मित जात्यकमलको मलमात्रिकशोभमानलप्टोप्टम्, रक्तोत्पलपत्र मृदुकसुकुमारतालुजिहम्, मूषागतमवरकनकतापितम् आवर्तयत्ततडित्रिम लसदृशनयनम्, विशालपीवरोरुम्, परिपूर्णविपुलस्कन्धम्, मृदुविशद सूक्ष्मलक्षणमशस्वविस्तीर्ण केशरसटोपशोभितम्, उच्छ्रिोत सुनिर्मितसुजातास्फोटितलाहुल, सौम्य सौम्याकारं लीलायन्तम्, जृम्भायमाणं नभस्तलात् अवपतन्तम् निजकवदनम् अतिपतन्तं सिंहं स्वप्ने दष्ट्वा खल्ल मतिबुद्धा । ततः खलु सा प्रभावती देवी इममेतद्रूपम् उदारं यावत् सश्रीकं महास्वप्नं दृष्ट्वा खलु प्रतिबुद्धा सती हृष्टतुष्ठ यावत् - हृदयाधाराहत कदम्बपुष्प कमिव समुच्छ्वसितरोमकूपा वं स्वप्नमवगृह्णाति, अवगृह्य शयनतः अभ्युत्तिष्ठति, अभ्युत्थाय अत्वरितमचपलमसंभ्रान्ततया अविलम्बितया राजहंससदृश्या गत्या यत्रैव बलस्य राज्ञः शयनीयं तत्रैवोपागच्छति, उपागत्य बलं राजान ताभिः इष्टाभिः कान्ताभिः प्रियाभिः मनोज्ञाभिः, मनोऽमाभिः उदाराभिः कल्याणामिः शिवाभिः धन्याभिः मङ्गल्याभिः सश्रीकाभिः मितमधुरमन्जुलाभिः गीर्भिः संलपन्ती प्रतिबोधयति । प्रतिबोध्य बलेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्नभक्तिचित्रे भद्रासने निषीदति, निषध आश्वस्ता, विश्वस्ता सुखासनवरगता वलं राजानम् वाभिः इष्टाभिः कान्ताभिः यावत् संलपन्ती संलपन्ती एवम् अवादीत्-एवं खल्लु अहं देवानुप्रियाः । अत्र तस्मिन् तादृशके शयनीये सालिङ्गने तदेव यावत् निजकवदनमतिपतन्तं सिंहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा, तत् खलु देवानुमियाः । एतस्य उदारस्य यावत् महास्वप्नस्य किं मन्ये कल्याणः फलवृत्तिविशेषो भविव्यति ? । ततः खलु स बलो राजा प्रभावत्याः देव्याः अन्तिकम् एवम श्रुत्वा निशम्य दृष्टतुष्ट यावत् - हृतहृदयो धाराहतनी पसुरभिकुसुमचचुराळाचिततनुकः उच्छ्रितरोमकूपः तं स्वप्नम् अवगृह्णाति, अवगृह्य ईहां प्रविशति, प्रविश्य आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तस्य स्वप्नस्य अर्थावग्रहणं करोति, कृत्वा प्रभावती देवीं ताभिः इष्टाभिः कान्ताभिः यावत् - मङ्गल्याभिः मितमधुरसश्रीकाभिः संलपन् संलपन एवम् अवादीत् - उदारः खलु त्वया देवि ! स्वप्नः दृष्टः, कल्याणः खलु त्वया देवि० ! यावत्, सश्रीकः खलु त्वया देवि ! स्वप्नः , 1
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy