________________
३३०
--
-
।
भगवतीसूत्रे राजर्षिः प्रथमषष्ठक्षपणपारणे आतापनभूमितः प्रत्यारोपति, प्रत्यवाह्य बल्कलवस्त्रनिवसितो यत्रैव स्वकम् उटजं तत्रैव उपागच्छति, उपागत्य किठिनसांकायिक गृह्णाति, गृहीत्वा पौररत्यायां दिशि सोपो महाराजः प्रस्थाने प्रस्थितम् अभिरक्षतु शिवं राजर्पिम् , अभिरक्ष्य यानि च तत्र कन्दानि च, मूलानि न त्वचश्च, पत्राणिच, पुष्पाणि च, फलानि च, वीजानि च, धरितानि च, 'तानि अनुजानातु इतिकृत्या पौरस्त्यां दिश प्रसरति, प्रसृत्य यानि तत्र कन्दानि च वाग्द हरितानि च तानि गृह्णाति, गृहीत्वा किढिनसांकायिकं भरति, मृत्वा दर्भाश्च, समिधश्च पत्रामोटक च गृह्णाति, गृहीत्वा यत्रैव स्वकः उटजः तत्रैव उपागच्छति, उपागत्य किदिनसां कायिकं स्थापयति, स्थापयित्वा वेदिम् वई यति, वर्तयित्वा उपलेपनसंमार्जन करोति, कृत्वा दर्भसगर्भकलशहस्तगतो यत्रैव गहामहानदी तत्रैव उपागच्छति, उपागत्य गङ्गामहानदीम् अवगाहते, अवगाह्य जलमज्जनं करोति, कृत्वा जलनीडां करोति, कृत्वा जलाभिषेकं करोति, कृत्वा आचान्तः चोक्षः परमशुचीभूतो देवतपितृकृतकार्यः दर्भ सगर्भ कलशहस्तगतो गङ्गाया महानघाः प्रत्यवतरति, प्रत्यवतीर्य यत्रैव स्वकउटजः तत्रैव उपागच्छति, उपागत्य दमैश्च कुशैश्च बालकाभिश्च वेदि रचयति, रचयित्वा शरकेण अरणि मनाति, मथित्वा अग्नि पातयति, पातयित्वा अग्नि संधुक्ष समित्काष्ठानि मक्षिपति, प्रक्षिप्य अग्निमुज्ज्वाल्य, अग्नेः दक्षिणे पाश्च सप्ताङ्गानि समादधाति, तद्यथा-सकथा १, वल्कलम् २, स्थानम् ३, शय्यामाण्डम् ४, कमण्डलुम् ५, दण्डदारु ६, तथाऽऽत्मानम् ७, अथ तानि समादधाति, मधुनाच घतेन च तण्डुलैश्च अग्नि जुहोति, हुत्वा चरुं साधयति, साधयित्वा बलिवैश्वदेवं करोति कृत्वा अतिथिपूजां करोति, कृत्वा ततपश्चात् आत्मना आहारमाहरति । ततः खलु शिवो राजपिः द्वितीयं पष्ठक्षपणम् उपसंपद्य विहरति, ततःखलु स शिवो राजर्षिः द्वितीये पाठक्षपणपारणे आतापनभूमितः प्रत्यवरोहति, प्रत्यवसह्य एव यथा प्रथमपारणे, नवर दक्षिणां दिशं प्रोक्षति, प्रोक्ष्य दक्षिणस्यां दिशि यमो महाराजः प्रस्थाने प्रस्थितं वेप तदेव आहारमाहरति । ततः खल्ल स शिवो राजर्षिः तृतीयं पष्ठक्षपणम् उपसंपद्य विहरति, ततखलु स शिवो राजर्पिः, शेष तदेव नवर पश्चिमायां दिशि वरुणो महाराजः प्रस्थाने पस्थितं शेषं तदेव यावत्-आहारमाहरति । ततःखलु स शिवो राजर्षिः चतुर्थ पष्ठक्षपणपारणके, एवं तदेव, नवरम् उत्तरदिशं प्रोक्षति, उत्तरस्यां दिशि वैश्रमणो महाराजः प्रस्थाने प्रस्थितम् अभिरक्षतु शिवम् , शेष तदेव यावत् , ततःपश्चात् आत्मना आहारमाहरति ।।सू० २॥