________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पादनिरूपणम् २२३ सक्रियाः, अक्रियाः ? गौतम ! नो अक्रियाः, सक्रियो वा सक्रिया वा १९ । ते स्खलु भदन्त ! जीवाः कि सप्तविधवन्धकाः, अष्टविधवन्धकाः ? गौतम | सप्तविधवन्धको वा, अष्टविधवन्धको वा, अष्ट सङ्गा : २० । ते खलु भदन्त ! जीवाः किम् आहारमंज्ञापयुक्ताः, भयसंज्ञोपयुक्ताः, मैथुनसंज्ञोपयुक्ताः ? परिग्रह संज्ञोपयुक्ता गौतम ! आहारसंज्ञोपयुक्ता वा, अशीतिः भङ्गाः । २१ ते खलु भदन्त । जीवाः किम क्रोधकपायिणः, मानकपायिणः, मायाकपायिणः, लेनिकषायिणः ? अशीतिः भङ्गाः २२ । ते खलु भदन्त ! जीवाः किं स्त्रीवेदकाः, पुरुपवेदकाः, नपुंसकवेदकाः? गौतम ! नो स्त्रीवेदकाः, नो पुरुषवेदकाः, नपुंसकवेदको धा, नपुंसकवेदका वा २३। ते खलु भदन्त ! जीवाः किम् स्त्रीवेदवन्धकाः, पुरुषवेदयन्धकाः, नपुंसकवेद वन्धकाः ? गौतम ! स्त्रीवेदवन्धको वा पुरुषवेदबन्धको बा, नपुंमकवेदयन्धको वा पइविंशतिः भगा । २४ ते खलु भदन्त ! जीवाः किं संज्ञिनः, असंज्ञिनः ? गौतम ! नो संज्ञी, असंजीवा, असंज्ञिनोवा २५ । ते खलु भदन्त ! जीवाः किं सेन्द्रियाः, अनिन्द्रियाः? गौतम ! नो अनिन्द्रियाः, सेन्द्रियो वा, सेन्द्रिया वा २६। स खल भदन्त ! उत्पलजीव इति कालतः कियचिरं भवति ? गौतम ! जधन्येन अन्तमुहूर्तम्, उत्कृष्ठेन असंख्येयं काळम् २७। स खलु भदन्त ! उत्पल जीवः पृथिवीजीवः पुनरपि उत्पलजीव इति कियन्तं कालं सेवेत ? कियन्तं कालं गतिमागतिं कुर्या ? गौतन ! भवादेशेन जधन्येन द्वे भवग्रहणे, उत्छण्टेन असंख्येयानि भवग्रहणानि, कालादेशेन जधन्येन द्वे अन्तर्मुहूते, उत्कृप्टेन असंख्येयं कालम, एतावन्तं कालं सेवेत, एकावन्तं कालं गतिमागतिं कुर्यात् । स खलु भदन्त ! उत्पलजीवः अपूजीवः, एवमेव, एवं यथा पृथिवीजीवो भणितस्तथा यावत् वायुजीवो भणितव्यः । स खलु भदन्त । उत्पलजीवः स वनस्पतिजीवः, स पुनरपि उत्पकजीव इति कियन्तं कालं सेवेत ? कियन्तं कालं गतिमागर्ति करोति? गौतम! भवादेशेन जघन्येन द्वे भवग्रहणे, उत्कृष्टेन अनन्तानि भवग्रहणानि, काला देशेन जधन्येन द्वे अन्तर्मुहूर्त, उत्कृष्टेन अनन्तं कालं तरुकालम् इयन्तं कालं सेवेत, इयन्तं कालं गतिमागतिं करोति । स खलु भदन्त ! उत्पलजीवो द्वीन्द्रियजीव पुनरपि उत्पलजीव इति कियन्त काल सेवेत ? कियन्तं कालं गतिमागतिं करोति? गौतम! भवादेशेन जधन्येन द्वे भवग्रहणे, उत्कृष्टेन संख्येयानि भवनहणानि, कालादेशेन जधन्येन द्वे अन्तर्मुहूते, उत्कृप्टेन संख्येयं कालम्, इयन्तं कालं सेवेत, इयत्तं कालं गतिमागतिं करोति । एवं त्रीन्द्रियजीवः एवं चतुरिन्द्रिय जीवोऽपि । स खलु भदन्त ' उत्पल नी: पञ्चेन्द्रियतियंग्योनिक जीवः पुनरपि उत्पलजीव इति पृच्छा ? गौतम ! भवादेशेन जधन्येन द्वे भवग्रहणे, उत्कृष्टेन अष्ट भवग्रहणानि, कालादेशेन जघन्येन वे अन्तर्मुहूर्ते, उत्कृष्टेन पूर्वकोटिपृथक