________________
१०४
भगवतीसूत्रे
काकन्दकाः त्रयस्त्रिंशत् सहायाः गृहपतयः श्रमणोपासकाः चमरस्य असुरेन्द्रस्य असुरक्कुमारराजस्य त्रायस्त्रिंशक देवतया उपपन्नाः, तत्मभृति च खलु भदन्त । एव मुच्यतेचमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? ' ततः खलु भगवान् गौतमः श्यामहस्तिना अनगारेण एवमुक्तः सन् शङ्कितः, काङ्क्षितः, विचिकित्सितः उत्थाया उत्तिष्ठते उत्थाय श्यामहरितना अनगारेण सार्द्धम् यत्रैव श्रमणो भगवान महावीरस्तत्रैव उपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवमवादीत् - सन्ति खलु भदन्त ! चमररय असुरेन्द्रस्य असुरकुमारराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? इन्त, सन्ति, तत् केनार्थेन मदन्त । एवमुच्यते ? एवं तदेव सर्व भणितव्यम्, यावत् तत्प्रभृति च खलु एवमुच्यते चमरस्य असुरेन्द्ररूप अनुरकुमारराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? नायमर्थः समर्थः, गौतम | चमरस्य खलु असुरेन्द्रस्य असुरकुमारराजस्य त्रयस्त्रिंशकानां देवानाम् शाश्वतं नामधेयं प्रज्ञप्तम्, यत् न कदाचित् नासीत् न कदापि न भवति, न कदापि न भविष्यति यावत् नित्यम् अव्युच्छित्तिनयार्थतया अन्ये व्यवन्ति, अन्ये उपपद्यन्ते । सन्ति खलु भदन्त ! वलेः वैरोचनेन्द्रस्य वैरोचन राजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? इन्त !, सन्ति, तत् केनार्थेन भदन्त । एवमुच्यते - वले: वैरोचनेन्द्रस्य यावत् त्रयस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः ? एवं खलु गौतम ! तस्मिन् काले तरिमन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे विभेलो नाम सन्निवेशोऽभवत्, वर्णकः, तत्र खलु विभेले सन्निवेशे यथा चमरस्य यावत् उपपन्नाः ? यत् प्रभृतिच खलु भदन्त । ते विभेलगाः त्रयस्त्रिंशत्सहायाः गृहपतयः श्रमणोपासकाः वले: वैरोचनेन्द्रस्य वैरोचनराजस्य त्रयस्त्रिंशकाः देवाः शेष तदेव यावत् नित्यम् अभ्युच्छि चिनयार्थतया अन्ये व्यवन्ति, अन्ये उपपद्यन्ते । सन्ति खलु भदन्त ! धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ९ हन्त, सन्ति, तत् केनार्थेन यावत् त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः ? गौतम ! धरणस्य नागकुमारेन्द्रस्य नागकुमारराजस्य त्रायस्त्रिंशकानां देवानां शाश्वतं नामधेयं मज्ञप्तम्, यत् न कदापि नासीत्, यावत् अन्ये च्यवन्ति, अन्ये उपपद्यन्ते, एवं भूतानन्दस्यापि एवं यावत् महाघोपस्य । सन्ति खलु भदन्त ! शक्रस्य देवेन्द्रस्य देवराजस्य पृच्छा, हन्त, सन्ति, तत्केनार्थेन यावत् त्रायस्त्रिंशकादेवाः त्रयस्त्रिंशत् सहायाः ९ एवं खलु गौतम ! तस्मिन् काले, तस्मिन् समये, व जम्बूद्वीपे द्वीपे भारते वर्षे पालाशको नाम सन्निवेशोऽभवत्, वर्णकः, तत्र खलु पालाशके सन्निवेशे त्रयस्त्रिंशत् सहायाः गाथापतयः श्रमणोपासकाः