________________
प्रमेपलिमाटी० १०२९३३ सू०१३ महावीरवाक्य प्रतिजमालेर श्रद्धानि० ५४५
छाया-तवालल स जमालिः अनगारः अन्यदा कदाचित् यत्रैव श्रमणो भगवान महावीरस्तनेष आगच्छति, उपागत्य श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नास्यित्वा एवम् आआदीत्-इच्छामि खलु भदन्त ! युष्माभिः अभ्यनुज्ञातः सन् पञ्चभिः अनगारशतैः सार्द्धम् बाह्य जनपदविहारं विहर्तुम् । ततः खलु स श्रमणो भगवान महावीरो जयाले अनगारस्य एतमथम नो आदियते, नो परिजानाति, तूष्णीकः संतिष्ठते, तताखलु स जमालिरनगारः श्रमणं भगवन्तं महावीरं द्वितीयमपि तनीयमपि एवम् अगादीत्-इच्छामि खलु भदन्त ! युष्माभिरभ्यनुज्ञातः सन पञ्चभिरनगारशतैः सार्द्धम् यावत् विर्तुम् । ततखलु . स श्रमणो भगवान् महावीरो जमालेरनगारस्य द्वितीयमपि तृतीयमपि एतमर्थ नो
आद्रियते यावत् तृष्णीका संतिष्ठते । तत खलु स जमालिरनगारः श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा श्रमणस्य भगवती महावीरस्य अन्तिकोत् बहुशाल कात् चैत्यात् प्रति निष्क्रमति मतिनिष्क्रम्य पञ्चभिरनगारशतैः सार्द्धम् बाह्यं जनपदविहरं विहरति । तस्मिन् काले तस्मिन् समये श्रावस्ती नाम नगरी आसीत् वर्णकः कोष्ठकं चैत्यम्, वर्णकः, यावत् वनखण्डस्य, तस्मिन् काले तस्मिन् समये चम्पानाम नगरी आसीत्, वर्णका, पूर्णभद्रं चैत्यम् , वर्णकः, यावत् पृथिवीशिलापट्टकः । ततःखलु स जमालिरनगारः अन्यदा कदाचित् पञ्चभिरनगारशतैः सार्द्धम् संपरिवृतः पूर्वानुपूर्वि चरन् ग्रामानुग्राम द्रवन् यत्रैव श्रावस्ती नगरी यत्रैव कोष्ठकं चैत्यं तत्रैवोपागच्छति, उपागत्य यथामतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा अत्मानं भावयन् विहरति । ततखलु श्रमणो भगवान महावीर अन्यदा कदाचित् पूर्वानुपूर्वी चरन्यावत् सुखं सुखेन विहरन् यत्रैव चम्पानगरी, यत्रैव पूर्णभद्रं चैत्यम् तत्रैवोपागच्छति, उपागत्य यथाप्रतिरूपम् अवग्रहम् अवगृह्णाति, अवगृह्य संयमेन तपसा आत्मानं भावयन् विहरति । ततःखलु तस्य जमालेः अनगारस्य तैः अरसैश्च, विरसेश्व, अन्तैश्च, प्रान्तैश्व, रूक्षेश्व, तुच्छेश्व, कालातिक्रान्तश्च, प्रामीणातिक्रान्तैश्च, शीतैश्च पानभोजनः अन्यदा कदाचित् शरीरके दिपुलो रोगातङ्कः प्रादुर्भूतः, उज्ज्वलो विपुलः प्रगाढः, कर्कशः, कटुका, चण्डः, दुःखः, दुर्गः, दुरधिसह्यः । पित्तज्वरपरिगतशरीरः, दाहव्युत्क्रान्ति कश्चापि विहरति, ततःखलु स जमालि रनगारो बेदनया अभिभूतः सन् श्रमणान् निर्ग्रन्थान् शब्दयति, शब्दयित्वा एवमवादीत्-यूयं खलु देवानुप्रियाः ! मम शय्यासंस्तारकं संस्तृणीव ? । ततःखलु ते श्रमणाः निर्ग्रन्थाः जमालेः अनगारस्य एतमर्थ विनयेन प्रतिशृण्वन्ति, मतिश्रुत्य जमालेः अनगारस्य शव्यासंस्तारकं संरवणन्ति । ततःखलु स जमालि: