________________
प्रमेयचन्द्रिका टीका श०९४०३३सू०५ जमालिवकम्यनिरूपणम्
४१३ . छाया-ततः खलु स जमालिः क्षत्रियकुमारः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः, श्रमणं भगवन्तं , महावीरं त्रिकृत्वो यावत् नमस्यित्वा तमेव चातुर्घण्टम् अश्वरथम् आरोहति, आरुह्य श्रमणस्य भगवतो महावीरस्य अ. न्तिकात् बहुशालकात् चैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य सकोरण्ट यावत् ध्रियमाणेन महता भटचटकर यावत् . परिक्षिप्तो यत्रैव क्षत्रियकुण्डग्रामं : नगरं तत्रैव उपागच्छति, उपागम्य क्षत्रियकुण्डग्राम नगरस्य मध्यमध्येन यत्रैव स्वकं गृहं यत्रैव वाह्या उपस्थानशाला तत्रैव उपागच्छति उपागत्य तुरगौ निगृहाति, निगृह्य रथं स्थापयति, स्थापयित्वा रथान्। प्रत्यवरोहंति, प्रत्यवरुझ यसैव आभ्यन्तरिकी उपस्थानशाला यौवः मातापितरौ तव उपागच्छति, उपा. गत्य मातापितरौ जयेन विजयेन वर्द्धयतिनईयित्वा एवर्मवादी-एवं- खलु हे अम्बतातौ ! मया श्रेमणस्य भगवतो .महावीरस्य अन्ति के धर्मः निशमितः सोऽ. पिच मे धर्मः इच्छितः प्रतीच्छितः, अभिरुचितः । ततः खलु तं जमालि क्षत्रियकुमारम् मातापितरौ एवम् अवादिष्टाम्-धन्योऽसि खलं त्वं जात ! कृतार्थोऽसिखल त्वं जात ! कृतपुण्योऽसि खलं त्वं जोत ! कृतलक्षणोऽसि खलु त्वं जात ! यद खलु त्वया श्रमणस्य भगवतो महावीरस्य अन्ति के धर्मो निशमितः, सोऽपि धर्मः इच्छितः प्रतीच्छितः, अभिरुचितः । ततः खलु स जमालिः क्षत्रियकुमारो माता पितरौ द्वितीयमपि एवमवादीत-एवं खलु मया अम्बतातौ । श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मों निशमितो यावत् अंभिरुचिता, ततः खलु अहम् अम्बतातौ । संसारभयोद्विग्नः, भीतो जन्मजरामरणेभ्यः, तद् इच्छामि खलु अम्बततौ ! युवाभ्याम् अभ्यनुज्ञातः सन् श्रमणस्य भगवतो महावीरस्य अन्तिके मुण्डो भूत्वा, अगारात् अनगारितां प्रव्रजितुम् । ततः खलु सा जमाले क्षत्रियकुमारस्य माता ताम् अनिष्टाम् अकान्ताम् अप्रियाम् , अमनोज्ञाम् अमनोऽमाम् अश्रुतपूर्वाम् गिरं श्रुत्वा निशम्य स्वदागतरोमकूपमगलद् विलीनगांत्राशोकभरमवेपिताहानी निस्तेजाः दीनविमनोवदना करतलमर्दितेव कमलमाला. तत्क्षणावरुग्णदुर्बलशरीर लावण्यशून्यनिश्छाया गतश्रीका, प्रशिथिलभूषणपतत् क्षुण्णसंचूर्णितधवलवलयपभ्रष्टोत्तरीया, मूविशनष्टचेतोगुर्वी सुकुमारविकीर्णकेशहस्ता परंशुनिकृत्तेव चम्पफलता, निवृत्तमदेव इन्द्रयष्टिः विमुक्तसन्धिवन्धना, कुट्टिमतले 'धस इति सर्वाङ्ग संनिपतिता । ततः खलु सी जमालेः 'क्षत्रियकुमारस्य माता ससंभ्रमापवर्तितया , त्वरितं काश्चनभृङ्गारमुखविनिर्गतशीतलविमलजलधारया परिषिच्यमाननिर्वापितगात्रयष्टिः उत्क्षेपकतालवन्तवीजनकजनितबातेन सपता अन्तःपुरपरिजनेन आश्वासिता सती रुदंती, क्रन्दती शोचन्ती विलंपन्ती, जमालि
भ०-५५