________________
भगवती सूत्रे
छाया - तस्य खलु ब्राह्मण कुण्डग्रामस्य नगरस्य पश्चिमे अत्र खलु क्षत्रियकुण्डग्रामं नाम नगरम् आसीत्, वर्णकः तत्रखलु क्षत्रियकुण्डग्रामे नगरे जमालि. नमि क्षत्रियकुमारः परिवसति आयः, दीप्तः यावत् अपरिभूतः उपरिप्रासादवरगत: स्फुटद्भिः, मृदङ्गमस्तकैः, द्वात्रिंशद्वदैः नाटकैः नानाविधवरतरुणीसं प्रवर्तितैः उपनृत्यमानः उपनृत्यमानः, उपगीयमानः उपगीयमानः उपलाल्यमानः उपलाल्यमानः, प्राड्वर्षारात्र शरद्धेमन्तशिशिरवसन्तग्रीष्मपर्यन्तान् पडपि ऋतु यथाविमन मानयन् मानयन् कालं गालयन हष्टान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् मानुष्यकान् कामभोगान् प्रत्यनुभवन् विहरति । ततःखलु क्षत्रियकुण्डग्रामे नगरे शृङ्गाटक त्रिकचतुष्कचत्वर यावत् बहुजन शब्द इतिवा यथा औपपातिके यावत् एवं प्रज्ञापयति, एवं रूपयति एवं खलु देवानुप्रियाः ! श्रमणो भगवान् महावीरः आदिकरो यावत् सर्वज्ञः सर्वदर्शी ब्राह्मणकुण्डग्रामस्य नगरस्य वहिः बहुशालकं चैत्य यथाप्रतिरूपं यावत् विहरति, तद् महाफलं देवानुप्रियाः तथारूपाणाम् अर्हतां भवतां यथा औपपातिके यावत् एकाभिमुखाः क्षत्रियकुण्डग्रामस्य नगरस्य मध्यं मध्येन निर्गच्छन्ति, निर्गत्य यत्रैव ब्राह्मगकुण्डग्रामं नगरं यचैव बहुशालकं चैत्यम् एवं यथा औपपातिके यावत् त्रिविधया पर्युपासनया पर्युपास्ते । ततःखलु तस्य जमाले : क्षत्रियकुमा रस्य तं महान्तं जनशब्द वा यावत् - जनसन्निपातं वा नृण्यतो वा पश्यतो वा अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत - किं खलु अय क्षत्रियकुण्डग्रामे नगरे इन्द्रमहो वा, स्कन्दमहो वा, मुकुन्दमहो वा, नागमहो वा, यक्षमहो वा, भूतमहोबा, कूपमहो वा, तडागमहो वा, नदीमहो वा, हदमहो वा, पर्वतमहो वा, वृक्षमहो वा चैत्यमही वा, स्तूपमहो वा यन् खलु एते वहवः उग्रा, भोगा, राजन्याः, इक्ष्वाकवः ज्ञाताः, कौरवा', क्षत्रियाः, क्षत्रियपुत्राः, भटाः भटपुत्राः, यथा औपपातिके यावत् सार्थवाहमभृत्यः स्नाताः कृतवलिकर्माणो यथा औपपातिके यावत् निर्गच्छन्ति एवं जमालि: संप्रेक्षते, एवं संप्रेक्ष्य कञ्चुकिपुरुषं शब्दयति, कञ्चुकिपुरुषं दयित्वा एवम् अवादीत् किं खलु देवानुमिय १ अद्य क्षत्रियकु ण्डनामे नगरे इन्द्रमहो वा, यावत् निर्गच्छन्ति ? ततः खलु स कन्चु किपुरुषो जमालिना क्षत्रिय कुमारेण एवमुक्तः सन् हृष्टतुष्टः श्रमणस्य भगवतो महावीरस्य आगमन गृहीत विनिश्रयः करतलयावत् कृत्वा जमालि क्षत्रियकुमारं जयेन विजयेन पयति वर्द्धात्वा एवम् अवादीत्-नो खलु देवानुप्रिय ! अय क्षत्रियकुण्डग्रामे नगरे, इन्द्रमहोत्रा, यावत् निर्गच्छन्ति, एवं खलु देवानुप्रिय ! अथ श्रमणो भगवान् महावीरो यावत् सर्वज्ञः सर्वदर्शी ब्राह्मग कुण्डग्रामस्य नगरस्य
४०२,