________________
३६०
भगवती सूत्रे
स ऋवभदत्तो ब्राह्मगः कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् क्षिणमेव भो देवानुप्रियाः ! लघुकरणयुक्त - यौगिक- समखुरवालिधानसम लिखित जाम्बूनदमयकलापयुक्तमविविशिष्टकाभ्यां
शृङ्गकाभ्यां
प
रजतमयघण्टा सूत्र रज्जुकमवर काञ्चननस्तमग्रहावगृहीतकाभ्यां नीलोत्पलकृतापीडकाभ्यां प्रवरगोयुवां नानामणिरत्नघटिकाजालपरिगतं सुजातयुगयोक्त्ररज्जुका युगप्रशस्त सुविरचितनिर्मितम्, प्रवरलक्षणोपेतं धार्मिकं यानप्रवरं युक्तमेव उपस्थापयत उपस्थाप्य मम एतामाज्ञप्तिं प्रत्यर्पयत ' ततः खलु ते कौटुम्बिक पुरुषाः ऋषभदत्तेन ब्राह्मणेन एवमुक्ताः सन्तो हृष्ट- यावद् हृदयाः करतलयावत्कृत्वा एवम् स्वामिन् ! तथेति आशया विनयेन वचनं प्रत्तिशृण्वन्ति, प्रतिश्रुत्र क्षिप्रमेव लघुकरणयुक्त यावत् धार्मिकं यानप्रवरं युक्तमेव उपस्थाप्य यावत् तामाज्ञप्तिकां प्रत्यर्पयन्ति । ततः खलु स ऋषभदत्तो ब्राह्मणेः स्नातो यावत् अल्पमहार्घाभरणाल कृतशरीरः स्वस्मात् गृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव वाह्या उपस्थानशाला, यत्रैव धार्मिकं यानप्रवरं तत्रैव उपागच्छति, उपागत्य धार्मिक यानउत्ररम् दुरूढः, ततः खलु सा देवानंदा ब्राह्मणी अतः अन्तःपुरे स्नाता, कृतवलिकर्मा, कौतुक उपायश्चित्ता, किञ्च । वरपादप्राप्तन्(मणिमेखलाहारविरचिवोचितकटकखुङगेकावलीकण्ठसूत्रोरः स्थग्रैवेयकश्रोणिसूत्रकन. नामणिरत्नभूषण विराजिताङ्गी चीनांशुकब पवरपरिहिता दुकूलसुकुमारोतरीया सर्वर्तुकसुरभिकुसुमाकृतशिरोजा वरचन्दनचर्चिता, वराभरणभूषिताङ्गी कालागुरुधूपधूपिता श्री समानवेपा यावत् अल्प महार्घाभरणालङ्कृतशरीरा वहीभिः कुब्जामिश्चिलातिकाभिर्वामनिकाभिः, वडभिकाभिः, वर्बरिकाभिः, इसिनिकाभिः यौनिकाभिः, चारुणिकाभिः, पल्लविकाभिः, ल्हासिकाभिः लकुशिकामिः आरवीमि द्राविडीभिः सिंहलीभिः पुलिन्दीभिः पुष्फलीभिः सुरुण्डीभिः शवरीभिः पारसीभिः नानादेशीयाभिः विदेशवेषपरिमण्डिताभिः स्वदेश नेपथ्य गृहीतवेपाभिः इङ्गितचिन्तितमार्थित विज्ञापिकाभिः कुशलाभिः विनीताभिश्च चेटिका चक्रवातवर्षधरस्थविरकञ्चुकि महत्त रकवृन्दपरिक्षिप्ता अन्तःपुरात् निर्गच्छति, निर्गत्य यत्रैव वाह्या उपस्थानशाला, यत्रैव धार्मिकं यानप्रवरं तत्रैव उपागच्छति, उपागस्य यावत् धार्मिकं यानप्रवरं दुरूढा । ततः खलु स ऋषभदत्तो ब्राह्मणो देवानन्दया ब्राह्मण्या सार्द्धम् धार्मिकं यानप्रवरम् दूरूढः सन् निजक परिवारसंपरिवृतो ब्राह्मणकुण्डग्रामस्य नगरस्य मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव बहुशालकं चैत्यम्, तत्रैव उपागच्छति, उपागत्य छत्रादिकान् तीर्थकरातिशयान् पश्यति, दष्वा धार्मिकं यानप्रवरं स्थापयति,
"
,
"
•