________________
सुघाटीका स्था०५ उ०२ सू०११ व्यवहारम्वरूपनिरूपणम् अवधारयत । स आगमव्यवहारः प्रत्यक्षारोक्षभेदेन द्विविधो ज्ञातव्यः ॥१॥ तत्र प्रत्यक्षः पुनरिन्द्रियज नोइन्द्रियजभेदेन द्विविधो बोध्यः । इन्द्रियज प्रत्यक्षस्तत्र पञ्चेन्द्रियार्थविषयकत्वेन पञ्चविधः ।२। नोइन्द्रियजन्यः प्रत्यक्षस्तु संक्षेपतः त्रिविधो भवति । त्रैविध्यं तस्य केवलज्ञानमनःपर्यवज्ञानावधिज्ञानभेदाद् वोध्यम् ॥३॥ यस्य मुनेः परोक्षोऽपि आगमः वस्तु स्वरूपस्य सम्यग् निर्णायकत्वात् प्रत्यक्षागमसदृशो भवति । चन्द्रमुखीव-मुखे चन्द्रत्वप्नुपचर्य यथा रमणी चन्द्रमुखीत्यभिधीयते तथैव उपचारात्-स मुनिरपि आगमव्यवहारवान् भवति ॥४॥ अमुं पारोक्षं व्यवहारं श्रुतधरा आगमतो व्यवहरन्ति ते श्रुनधरा के ? इत्याह-ते डि परवादिविद्रावणे गन्धहस्तिसदृशाः चतुर्दशपूर्वधरा दशपूर्वधरा नवपूर्वधराश्व वोध्याः ॥५॥ सम्प्रति आगमव्यवहारिणः प्रशंसापरां गाथामाह-'जं जहमोल्लं' इत्यादि । यद् रत्नं यथामूल्यं भवति तत् रत्नवाणिनो निपुणं यथा स्यात्तथा जानाति, इति अमुना प्रकारेणैव प्रत्यक्षी-प्रत्यक्षज्ञानी अपि जानाति यत् , योऽतीचारवान्
येन प्रायश्चित्तेन दत्तेन शुद्वयति, स तथैव अतीचारवते प्रायश्चित्तमपि ददाति।।६।। ___ इत्थं यो मुनिः केवलज्ञानेन मनापर्यव ज्ञानेन अवधिज्ञानेन चतुर्दशपूर्वधरत्वेन दशपूर्वधरत्वेन नवपूर्वधरत्वेन वाऽतीचारविशुद्धये यत् प्रायश्चित्तं ददाति, तत् प्रायश्चित्तदानम् आगमव्यवहारट्त्युच्यते । अथ श्रुतनामक द्वितीयं व्यवहारमाहयो मुनिः कल्पस्य बृहत्कल्पसूत्रस्य तथा-परमनिपुणस्य-प्रायश्चित्तविधौ स्फुटविचारयुक्तस्य व्यवहारसूत्रस्य च, एवकारोऽप्यर्थंकः, तेन निशीथदशाश्रतयोः संग्रहः, निशीथस्य दशाश्रुतत्य च, नियुक्तिम् अर्थतो विजानाति स मुनिः व्याहारी अनुजाता कथितः । ७। तम् व्यवहारिंगमेर अनुपनन् अनुवघ्नन् अनु. सरन् यो मुनिः अतीचारे सम्प्राप्ते यथोक्तम्-श्रुतोक्तिमनुसृत्य व्यवहारविधि प्रायश्चित्तं प्रयुनक्ति ददाति, तस्य मुनेः श्रुतानुमारेण प्रायश्चित्तप्रदानरूप एष व्यवहारो वीतरागैः श्रुत व्यवहारश्रुतव्यवहार इति नास्ना प्रज्ञप्तः परपितः ॥८॥ अथ जाज्ञानामकं तृतीयं व्यवहारमाह-यः अपराक्रमःमनशक्तिपर्जितः तपस्वी शोधिकारक समीपे प्रायश्चित्तमातुः समीपे गन्तुं न शक्नोति, शोधिकारकोऽपि देशात्-आश्रितस्थलात् आगन्तुं न शक्नोति ॥९॥ अथ अनन्तरं स तपस्वी तस्य शोधिकारकस्य समीपे शिष्यं गूढार्थपदै. सन्दिश्य प्रस्थापयति अपयति, कि सन्दिश्य प्रेषयति ? इत्याह-हे आर्य ! देशान्तरणमननष्टचेष्टाः-अशक्त्या देशान्तरगमने नष्टाः चेष्टा येषां ताशा वयम् सकाशे-त्यत्तः शोधिप्रायश्चित्तं कर्तुमिच्छामः, इति ॥१०॥ ततः सन्देशवाहकः शिष्यप्नुयात् स व्यवहारविधिज्ञः शोधिकारकः श्रुतोपदेशेन शास्त्रेण अनुपज्य-सन्देशं यथावद् विचार्य " तस्मै