________________
सूत्रकृतसूत्रे
इमां तावद् यूयं साग्निकानामङ्गाराणां पात्रों बहुप्रतिपूर्णां गृहीत्वा मुहूर्त मुहूर्त पाणिना धरत नो बहुसंदंशकं सांसारिकं कुरुत नो अग्निस्तम्भनं कुरुत नो बहु साधर्मिकवैयावृत्यं कुरुत नो बहुपरधार्मिकवैयावृत्यं कुरुत ऋजुकाः नियागपतिपन्नाः अमायां कुर्वाणाः पाणि प्रमारयत । इत्युक्त्वा स पुरुष स्तेपां मायादुकानां तां सानिकानामङ्गानां पात्र बहुपतिपूर्णाम् अयोमयेन संदंशकेन गृहीत्वा पाणिषु निस्सृजति, ततः खलु तें मावादुका आदिकराः धर्माणां नानामज्ञा यावनानाऽध्य वसानसंयुक्ताः पार्णि प्रतिसंहरन्ति ततः खलु स पुरुषः तान सर्वान मायादुकानं भादिकरान् धर्माणां यावद नानाध्यवसानसंयुक्तान् एवमवादीत्, हो मावादुकाः ! आदिकराः धर्माणां नानामज्ञाः यावन्नानाध्यवसानसंयुक्ताः ! कस्मात् खलु यूयं पाणि प्रतिसंहरथ पार्णि नो दहेत् दग्धे किं भविष्यति ? दुःखं दुःखमिति-मन्यमानाः पाणि प्रतिसंहस्थ, एपा तुला एतद् प्रमाणम् एतत् समवसरणम् प्रत्येकं तुला प्रत्येकं प्रमाणं प्रत्येकं समवसरणम् । तत्र ये ते श्रमणाः माहनाः एवमा रूयान्ति यावत् प्ररूपयन्ति सर्वे माणाः यावत् सर्वे सच्चाः हन्तव्या आज्ञापयितव्याः परिग्रहीतव्याः परितापयितव्याः क्लेशयितव्याः उपद्रावयितव्याः, ते आगामिनि छेदाय ते आगामिनि भेदाय यावत् ते आगामिनि जातिजरामरणयोनिजन्मसंसारपुनर्भवगर्भवास भवमपञ्चककली मागिनो भविष्यन्ति । ते बहूनां दण्डनानां बहूनां मुण्डनानां वर्जनानां ताडनाना मुबन्धनानां यावद् घोलनानां मातृमरणानां पितृमरणानां भ्रातृमरणानां भगिनीपरणानां भार्यापुत्रदुहितृस्नुपामरणानां दारिद्रयाणां दौर्भाग्यानामभियसहवासानां मियविप्रयोगानां बहूनां दुःखदौर्मनस्या नामाभागिनो भविष्यन्ति, अनादिकं च खलु अनवदग्रं दीर्घमध्वं चातुरन्वसंसारकान्तारं भूयो भूयः अनुपर्यटिष्यन्ति ते नो सेत्स्यन्ति नो भोत्स्यन्ति यावन्नो सर्वदुःखानामन्तं करिष्यन्ति । एषा तुला एतत् प्रमाण मेतत् समवसरणम्, प्रत्येक तुला प्रत्येकं प्रमाणं प्रत्येकं समवसरणम् । तत्र खलु ये ते श्रमणाः माहनाः एवमारूयान्ति यावदेवं रूपयन्ति सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सच्चाः न हन्तव्याः नाज्ञापयितव्याः न परिग्रहीतव्याः नोपद्रावयितव्याः ते नो आगामिनि छेदाय ते नो आगामिनि भेदाय यावज्जा तिजरामरणयोनि जन्मसंसारपुनभवगर्भवासपश्चक कळीभागिनो भविष्यन्ति । ते नो बहूनां दण्डनानां यावनो वनां मुण्डानां यावद् बहूनां दुःखदौर्मनस्यानां नो भागिनो भविष्यन्ति । अनादिकं च खलु अनवदग्रं च दीर्घमध्वं चातुरन्त संसारकान्तारं भूयो भूयः नो अनुपर्यटिष्यन्ति । ते सेत्स्यन्ति ते भोत्स्यन्ति यावत् सर्वदुःखानामन्तं करिष्यन्ति ।। ० २६ ॥ ४१ ॥
"
t