________________
समयार्थवोधिनी टीका द्वि श्रु. अ. १ पुण्डरीकनामाध्ययनम् .. - ३ ___ छाया-आथापर स्तृतीयः पुरुषजात ईश्वरकारणिक इत्याख्यायते। इह खलु भाच्यां वा ४ सन्त्ये के मनुष्या भान्ति आनुपूा लोकपुपपनाः तद्यथा-आर्या वा एके यावत् दूरूपा एके, तेषां च खलु महान् एको राजा भवति यावत् सेना. पतिपुत्राः। तेषां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मणाश्च सम्मधार्युः गमनाय यावत्, यथा-मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति-इह खलु धर्माः पुरुषादिकाः पुरुषोत्तराः पुरुषप्रणीताः पुरुासंभूताः पुरुषप्रयोतिताः पुरुषमभिसमन्वागताः पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम गण्डः स्यात् शरीरे जातः शरीरे संवृद्धः, शरीरेऽभिसमन्वागतः, शरीरमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम अरतिः स्थात् शरीरे जाता शरीरे संवृद्धा शरीरे अमिसमन्वागता शरीरमेव अभिभूय तिष्ठन्ति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम चल्मीकं स्यात् पृथिवीजातं पृथिवीसंवृद्धं पृथिवीमभिसमन्वागतं पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिकाः यावद पुरुषमेव अभिभूय-तिष्ठन्ति । तद्यथानाम वृक्षः स्यात् पृथिवीजातः पृथिवीसंदृद्धः पृथिवीमभिसमन्वागतः पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम पुष्करिणी स्यात् पृथिवी जाता यावत् पृथिवीमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावद पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम उदकपुष्कलं स्यात् उदकजातं यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम उदकबुद् बुदः स्यात् उदकजातो यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति। यदपि चेदं श्रमणानां निग्रन्थानामुद्दिष्टं प्रणीतं व्यञ्जितं द्वादशाङ्गं गणिपिटकं तद्यथा-आचारः सूत्रकृतो यावद् दृष्टिवादः सर्वमेतन्मिथ्या । नैतत्तथ्यं नैतद् याथातथ्यमिदं सत्यम् इदं तथ्यम् इदं याथातथ्यम्, ते एवं संज्ञां कुर्वन्ति ते एवं संज्ञां संस्थापयन्ति ते एवं संज्ञां सूपस्थापयन्ति, तदेवं ते वज्जातीयं दुःखं नैव त्रोटयन्ति शकुनिपञ्जरं यथा । ते नो एवं विप्रतिवेदयन्ति-तद्यथा-क्रिया इति वा यावद् अनिरय इति चा। एवमेव ते विरूपरूपैः कर्म समारम्भैः विरूपरूपान् काममोगान् समारभन्ते भोगाय । एवमेव ते अनार्या विपतिपन्ना एवं श्रदधाना यावदिति ते नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णा इति तृतीयः पुरुषजात ईश्वरकार• णिक इत्याख्यातः ।। मू०११ ।।।