________________
पञ्चमं लक्षणम्
७३
वाच्यम्। साध्याभावपदवैयापत्तेः । साध्यवद्भिन्नवृत्तित्वविशिष्टवदवृत्तित्वस्यैव सम्यक्त्वात् । सद्धेतौ हेत्वधिकरणे विशिष्टाधिकरणत्वाभावादेव असम्भवाभावात् । तृतीये साध्यवत्प्रतियोगिताकान्योन्याभावमात्रस्य घटकत्वे चालनीयन्यायेन अन्योन्याभावमादाय नानाधिकरणकसाध्यके वह्निमान् धूमादित्यादावव्याप्तिश्च इत्यपि बोध्यम् । इति श्रीमथुरानाथतर्कवागीशकृतं व्याप्तिपञ्चकरहस्यं समाप्तम् ।
Thus the chapter on VYĀPTI-PAÑCAKAM in VYAPTIVĀDA RAHASYA by Śrī Mathurānātha Tarkavāghisa ends.