________________
परिशिष्ट-१, प्रशमरतिः मूलम्
१९९
ममकाराहङ्कारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु पर्यायः ॥३१॥ मायालोभकषायश्चेत्येतद्रागसज्जितं द्वन्द्रम । क्रोधो मानश्च पुनद्वैष इति समासनिर्दिष्टः ॥३२॥ मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मबन्धस्य हेतू तौ ॥३३॥ स ज्ञान-दर्शनावरण-वेद्य-मोहायुषां तथा नाम्नः । गोत्रान्तराययोश्चेति कर्मबन्धोऽष्टधा मौलः ॥३४॥ पञ्चनवव्यष्टाविंशतिकश्चतुःषट्कसप्तगुणभेदः । द्विपञ्चभेद इति सप्तनवतिभेदस्तथोत्तरतः ॥३५॥ प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तीव्रो मन्दो मध्य इति भवति बन्धोदयविशेषः ॥३६॥ तत्र प्रदेशबन्धो योगात् तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥३७॥ ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥३८॥ कर्मोदयाद् भवगतिर्भवगतिमूला शरीरनिवृत्तिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥३९॥ दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥४०॥ कलरिभितमधुरगान्धर्वतूर्ययोषिद्विविभूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण इव विनाशमुपयाति ॥४१॥ गतिविभ्रमेङ्गिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥४२॥ स्नानाङ्गरागवर्तिकवर्णकरूपाधिवासपटवासैः । गन्धभ्रमितमनस्को मधुकर इव नाशमुपयाति ॥४३॥ मिष्टान्नपानमांसौदनादिमधुररसविषयगृद्धात्मा । गलयन्त्रपाशबद्धो मीन इव विनाशमुपयाति ॥४४॥ शयनासनसम्बाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र इव बध्यते मूढः ॥४५॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः ॥४६॥ एकैकविषयसङ्गाद् रागद्वेषातुरा विनष्टास्ते । किं पुनरनियमितात्मा जीवः पञ्चेन्द्रियवशातः ? ॥४७॥
१९९