________________
परिशिष्ट - १ प्रशमरतिः मूलम्
नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः ।
पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जनाः ॥१ ॥ जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च प्रशमरतिस्थैर्यार्थं वक्ष्ये जिनशासनात् किञ्चित् ॥२॥ यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥३॥ श्रुतबुद्धिविभवपरिहीणकस्तथाऽप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः ॥४॥ बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥ ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥६॥ तद्भक्तिबलार्पितया मयाऽप्यविमलाल्पया स्वमतिशक्त्या । प्रशमेष्टतयाऽनुसृता विरागमार्गैकपदिकेयम् ॥७॥ यद्यप्यवगीतार्था न वा कठोरप्रकृष्टभावार्था । सद्भिस्तथापि मय्यनुकम्पैकरसैरनुग्राह्या ॥८॥ कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वा ह्यन्यत् । दोषमलिनेऽपि सन्तो यद् गुणसारग्रहणदक्षाः ॥९॥ सद्भिः सुपरिगृहीतं यत् किञ्चिदपि प्रकाशतां याति । मलिनोऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्थः ॥१०॥ बालस्य यथा वचनं काहलमपि शोभते पितृसकाशे । तद्वत् सज्जनमध्ये प्रलपितमपि सिद्धिमुपयाति ॥ ११ ॥ ये तीर्थकृत्प्रणीता भावास्तदनन्तरैश्च परिकथिताः । तेषां बहुशोऽप्यनुकीर्तनं भवति पुष्टिकरमेव ॥१२॥ यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यतेऽर्त्तिनाशाय । तद्वद्रागार्तिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥१३॥