________________
श्रीप्रशमरतिप्रकरणस्योपाद्घातः.
विदाङ्कर्वन्तु विपश्चिद्वरा यदुतैतत् प्रकरणं वाचकवरैः श्रीमद्भिमास्वातिवरैर्विहितम् । श्रीमन्त उमास्वातिवाचका एके एवैतादृशा यत् श्रीश्वेताम्बरवद् नग्नाटैरपि येषां वचनं स्वीक्रियते । न हि नग्नाटानामागमनिर्युक्त्यादिके श्रीजिनोक्त्यनुवादतत्परश्रीगणभृद्भद्रबाहुस्वामिश्रुतकेवलिप्रभृतिविहिते यथा विप्रतिपत्तिस्तथा श्रीउमास्वातिवाचकपुङ्गववचसि, अन्यथा न ते श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्येरन् । यद्यपि नग्नाः श्रीउमास्वातीयं श्रीतत्त्वार्थसूत्रमभिमन्यन्ते परं तैरेव विरचितानि शेषप्रकरणानि न हि नाग्नाटानामभिमतानि, दुराग्रहमग्नैर्नग्नैः श्रीतत्त्वार्थसूत्रीयं भाष्यमपि तदीयं न तैरभिमतम् । यद्यपि अनेकानि विवरणानि श्रीमतस्तत्त्वार्थस्योपर्येतदेव भाष्यमनुसृत्य विहितानि तैः श्रुतनयनारकदेवनिर्ग्रन्थसिद्धविकल्पानां सूत्रेषु, एवं सत्यप्यनुकरणे स्वोपज्ञभाष्यस्यानङ्गीकारस्त्वेतेषां स्वमतकदाग्रहमूल एव, यतो निम्नोल्लिखितानि भाष्यस्थानानि तेषां मतस्य तिरस्कारकराणि, साधूनां धर्मोपकरणानां प्रतिपादकत्वात्, श्रावकाणां च सामायिकपौषधातिथिसंविभागेषु श्वेताम्बरीयविधेः प्रतिपादनात्, भगवतां जिनानां देशनाया निरूपकत्वाच्च । इमानि च तानि
यस्तु कृतार्थोऽप्युत्तममवाप्य धर्मं परेभ्य उपदिशति । नित्यं च उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥६॥ भा.का. केवलमधिगम्य विभुः स्वयमेव ज्ञानदर्शनमनन्तम् । लोकहिताय कृतार्थोऽपि देशयामास तीर्थमिदम् ॥१८॥ महतोऽतिमहाविषयस्य दुर्गमग्रन्थभाष्यपारस्य ।
कः शक्तः प्रत्यासं जिनवचनमहोदधेः कर्तुम् ? ॥२३।। तत्त्वार्थभाष्यं अ. १ सू. ५ आगमतश्च प्राभृतज्ञो द्रव्यमिति भव्यमाह । सू. २० अध्ययनानि उद्देशाश्च व्याख्याताः । सू. २६ मनुष्यसंयतस्यैव । अ. २ सू. ४९ नवभ्यो विशेषेभ्यः शरीराणां नानात्वम् । अ. ४ सू. ३ द्वादशविकल्पा वैमानिकाः । अ. ६ सू. २३ सङ्घस्य साधूनां च समाधिवैयावृत्त्यकरणं बालवृद्धतपस्विशैक्षग्लानादीनां
च सङ्ग्रहोपग्रहानुग्रहकारित्वम् ।। अ.७ सू. २ आलोकितपानभोजनं अनुज्ञापितपानभोजनम् ।