________________
मुक्तिस्वरूपे कुत्र समानता, कुत्र विभिन्नतेति स्पष्टं भवेत् ।
नैयायिक-वैशेषिका:-एतैर्मुक्तौ सुखानुभूति ऽङ्गीकृता । धर्मजन्यमेव सुखमिति तैः स्वीकृतत्वाद् मुक्तौ धर्माभावे सुखमपि न स्यादिति तेषां मतिः । मुक्त्यवस्थायां विशिष्टं ज्ञानं भवतीत्यपि तैनॊररीकृतं, तत्र विशेषगुणमात्रोच्छेदस्वीकारात् । केवलं दुःखजिहासयैव मुक्त्यर्थं प्रयत्न इति तन्मतम् । मुक्तिलक्षणमपि तैरेतदनुसारमेव निर्दिष्टम्
१. समानाधिकरण-दुःखप्रागभावासहवृत्ति-दुःखध्वंसो मुक्तिः ।
अस्मदीयवर्तमानदुःखस्य ध्वंसोऽस्मदीयभाविदुःखप्रागभावस्य सहवृत्तिर्भवतीति स न मुक्तिः । मुक्तस्य तु यः संसार्यवस्थान्तिमदुःखस्य ध्वंसः स भाविदुःखस्याऽभावाद् न दुःखप्रागभावसहवृत्तिः इति स ध्वंस एव मुक्तिः ।
२. दुःखध्वंसस्तोमो मुक्तिः । सर्वेषां दुःखाणां मुक्तावेव नाशादिदं लक्षणं तत्रैव गच्छेत् ।
अतीतदुःखानां पूर्वमेव नष्टवाद्, वर्तमानदुःखानां स्वत एव नाशाद्, भाविदुःखानां चाऽनुत्पन्नत्वात् कस्य दुःखस्य ध्वंसः परमपुरुषार्थतयाऽभिमतो भवेदित्यापत्तौ, 'भविष्यति काले दुःखानुत्पाद एवाऽस्माकमभिप्रेतः, स च दुःखसाधनाधर्मध्वंससाध्य' इति वदन्त एवं लक्षणं प्रथयन्ति
३. विशिष्टदुःखसाधनध्वंसो मुक्तिः । समानाधिकरण-दुःखसाधनाधर्मा-सहवृत्तित्वमेवाऽत्र वैशिष्ट्यम् ।
अत्राऽधर्मध्वंसो दुःखानुत्पादार्थमधिक्रियते । तथा च स परमपुरुषार्थो न भवेत्अन्येच्छानधीनेच्छाविषयस्यैव परमपुरुषार्थत्वाद्, मुक्तेस्तु परमपुरुषार्थत्वेनाऽभिमतत्वादिति कथ्यमाने ते लक्षणान्तरं प्रणयन्ति
४. दुःखानुत्पादो मुक्तिः । (अनुत्पादः प्रागभावः) अत्र यो दोषः स प्राभाकरमतनिरूपणे कथयिष्यते ।
५. केचित्पुनः 'दुःखेनाऽत्यन्तं विमुक्तश्चरती 'ति श्रुतिस्वरसाद् दुःखात्यन्ताभावमेव मुक्ति कथयन्ति ।
६. आत्मविशेषगुणोच्छेदो मुक्तिरिति लक्षणेनाऽपि तैर्मुक्तिर्लक्ष्यते, यतो मुक्तौ आत्मा जडकल्पो भवतीति ते मन्यन्ते । तन्मते आत्मनो विभुत्वेऽपि शरीरावच्छेदेनैव
१. समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव (मुक्तिः)-प्रशस्तपादभाष्यकन्दलीटीका ।
यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः ।