________________
परिशिष्ट-१
२३७
(४७) अथ परस्पराभावसापेक्षता व्रीहियवस्थलेऽप्रामाणिकी प्रथमप्रवृत्तव्रीहिविधितो यवकरणकत्वाभावविशिष्टस्यैव व्रीहिकरणकयागस्य फलसाधनत्वाप्रत्यायनादिति चेन्न तृणनिरपेक्षान्मणिरूपद्रव्याद्वढ्युत्पत्तावपि तृणाद्वह्निर्जायते द्रव्याद्वेति अप्रयोगात्तदुत्तरवाक्यस्थेनापि वाकारेण पूर्वकल्पव्यवच्छेदसाहित्यस्य उत्तरकल्प इव उत्तरकल्पव्यवच्छेदसाहित्यस्यापि पूर्वकल्पेऽपि बोध इति व्युत्पत्तेज़हिभिर्यवैर्वा इत्यादावपि व्रीह्यादौ यवासाहित्यबोधस्य व्युत्पत्तिसिद्धत्वादित्यन्यत्र विस्तरः ॥
॥ इति श्री गदाधरभट्टाचार्यकृतो मुक्तिवादः समाप्तः ॥
(४७) ननु यवविधिनोभयोरशास्त्रार्थत्वेऽपि प्रथमव्रीहिविधिना वा साहित्यस्याप्रतिपादनात्कुत उभयकरणकयागे तादृशफलासाधनत्वमित्याशङ्कते-अथेति । समाधत्ते-तृणेति । यवासाहित्यबोधस्येति । तात्पर्यवशादुत्तरवाक्यगतवाकारस्य पूर्वत्र योजनयेति भावः । प्राचीन-नैयायिकास्तु एकविंशतिप्रकारदुःखध्वंस एवापवर्गः । षडिन्द्रियानि षड्बुद्धयः शरीरं सुखं दुःखञ्चेत्येकविंशतिदुःखपदार्थ इत्याहुः ।
॥ इति श्री महामहोपाध्यायश्रीगदाधरभट्टाचार्यकृतमुक्तिवादस्य चन्द्रिका समाप्ता ॥