________________
मन:स्थिरीकरणप्रकरणम्
मानम्, नवमभागे सज्वलनमायां व्यवच्छेदयतीति। इह च षोडशप्रकृतयः कर्मग्रन्थाभिप्रायेणैवोक्ता। आवश्यके
तु
गइ आणुपुव्वि दो दो, जाईनामं च जाव चउरिंदी। आयावं उज्जोयं, थावरनामं च सुहमं च।। साहारणमपजत्तं, निद्दानिदं च पयलपयलं च। थीणं खवेइ ताहे, अवसेसं जं तु अट्ठन्हं (ण्हं)।
(पञ्चसङ्ग्रह-९१६) इत्यनेन ता एव षोडश अपर्याप्तनामाधिका सप्तदशेति।।१५८।। सम्प्रति प्रस्तुता कषायसत्तोच्यते[मूल] सोलसअडेक्काइसु, छेयविभागेसु नवसु जहकमसो ।
दुसु पंचसु एक्कक्के, बारचउतिगं तह दुगेक्कं ।।१५९।। व्याख्या] इह षोडशाष्टादीनां नवानां प्रकृतिछेदविभागानां मध्ये आद्यद्वये कषायाणां द्वादशानाम्, तृतीयादिसप्तमान्ते विभागपञ्चके चतुर्णाम्, अष्टमे त्रयाणाम्, नवमे तु प्रथमं द्वयोः पश्चादेकस्य सत्तेति तदेवाह
[मूल] नवमंसे जो नियडी, नो छिज्जइ ताव दुन्नि परमेगो ।
पा(बा)यरलोभो चिट्ठइ, जा नवमगुणस्स पजंतो ।।१६०।। [व्याख्या] स्पष्टा।।१५९।।१६०।। तदेवमुक्ता क्षपकाश्रिता कषायसत्ता। अथोपशमश्रेणिमाश्रित्य बन्धोदयातिदेशपूर्वकं सत्तास्वरूपमाह[मूल] उवसमसेढीए वि य, तहेव बंधुदय नवरि संतम्मि ।
उवसमसम्मे सोलस, सयलगुणे बारखयसम्मे ।।१६१।। व्याख्या] उपशमश्रेणावपि कषायाणां बन्धोदयौ क्षपकस्येव पूर्ववत् व्याख्येयौ। सत्तायां तु विशेषः, यतः क्षपकस्य नवसु विभागेषु पृथक् पृथक् सत्ताभाणि। इह पुनः समग्रेऽपि नवमगुणस्थानके उपशमसम्यग्दृष्टेः षोडश, क्षायिकदृष्टेस्तु द्वादश कषायाः सत्तायां लभ्यन्त इति।।१६१।। तथा[मूल] दसमे तणुलोभुदओ न हु बंधो तत्थ संति जहसंखं ।
एगो बारस सोलस खवगे खंडे य उवसमगे ।।१६२।। व्याख्या] बादरसज्वलनलोभस्यानिवृत्तिबादरसम्परायगुणे उदयव्यवच्छेदादि(त्) सूक्ष्मस्यैव सज्वलनलोभस्योदयः, न तु बन्धः। सत्तायां पुनः क्षपकश्रेणावेक एव सूक्ष्मः लोभः। तथा यः क्षायिकसम्यग्दृष्टिः स तु उपशमश्रेणिं विधत्ते स खण्डश्रेणिकस्तस्मिन् प्रत्याख्यानादयो द्वादश। यस्तूपशमिकसम्यग्दृष्टिः स तूपशमश्रेणिमधिरोहति, तत्र षोडशापि कषायाः सन्तीति।।१६२।।
[मूल] नणु जे वेयइ से बंधड़ त्ति तो किमिह लोह न हु बंधो ।
सच्चं एसो नाओ, थूलकसाए न उण सुहुमे ।।१६३।। न य बंधो न य उदओ, उवसंते बार सोल संतंमि ।
खंडोवसमगसेढिसु, खीणाइतिगं तु अकसायं ।।१६४।। व्याख्या] एते स्पष्टे। नवरं खंडि त्ति। खण्डश्रेणिके। तथात्र मनुष्यानन्तरं प्रस्तुतावपि नारकदेवौ नाभाणि,