________________
भवभावना- २९८
स्तम्भः, गलिता अङ्गुल्यः, स्फुटितं नखजालं, प्रकटिताः कासश्वासादिरोगाः, उत्पन्नं कुक्षिशूलं, वृद्धो जलोदरो, प्रसृतः सर्वाङ्गे महादाहः, न तु जातो गुणः केनाप्युपायेन, गता जीविताशा। इतश्च धनञ्जययक्षस्य रोगशान्त्यर्थं कुमारो मानयति। अत्रान्तरे केवली समायातः। राजा कुमाररोगहेतुं पृच्छति । ज्ञानी स्माह - “ अपरविदेहे रत्नस्थलपुरे पद्माक्षभूपेन कायोत्सर्गस्थमुनिर्बाणेन हतः । स सर्वार्थसिद्धिं गतः। सामन्तादिभिः पापोऽयमिति राजा उत्थापितः । पुत्रस्य राज्यं दत्तम्, राजा एकाकी वने भ्रमति । पुनरन्यं मुनिं दृष्ट्वोपसर्गं कुर्वन्नाह–सुयशा इत्युक्त्वा तेजोलेश्यया दग्धः सप्तमनरकं गतः। तत उद्धृत्य मत्स्यः, पुनः सप्तमनरकम्, एवमेकैकनरके वारद्वयं तिर्यग्भवान्तरितो भ्रान्तोऽनन्तकालम्। ततो नरभवं प्राप्य तापसव्रतमाराध्य अयं तव पुत्रो जातः। भुक्तं बहुकर्म स्तोकैरेव दिनैर्जिनधर्मप्रभावान्नीरोगो भावी।” कुमारः श्रुत्वा सम्यग्दृष्टिर्जातः। नीरोगोऽभूत्। महिष१००(शत ) याचनादिना यक्षेण क्षोभितोऽपि न क्षुब्धः। क्रमेण राज्यमासाद्य समये प्रव्रज्य सिद्धः। इति नृपविक्रमकथा॥२९६॥ [मू] अन्ने उण सव्वंगं, गसिया जररक्खसीइ जायंति।
रमणीण सज्जणाण य, हसणिज्जा सोअणिज्जा य॥ २९७॥
[अन्ये पुनः सर्वाङ्गं ग्रस्ताः जराराक्षस्या जायन्ते।
रमणीनां सज्जनानां च हसनीयाः शोचनीयाश्च ॥ २९७॥]
[अव] अन्ये तु तरुणा विभवरूपादिगुणान्विता अपि भूत्वा पश्चादप्यकस्माज्जराराक्षसीग्रस्ताः, रमणीनां हसनीयाः, सज्जनानां शोचनीयाश्च
८३
जायन्ते॥२९७॥
अन्ये तु ये विभविनो नयपरा नीतिमन्तश्चेत्यर्थः। तेषामपि केवलं गर्भवासबाल्यत्वे तारुण्यमपि प्रथम एव यौवनारम्भेऽनास्पदमेव । ये तु दारिद्र्योपहता अनीतिमन्तश्च तेषामनीतिमतां परयुवतिरमणपरद्रव्यहरणादिनिरतानां यानी{या}हभवे दुःखानि तानि को वर्णयितुं शक्नोति? इत्याह
[मू] इय विहवणयपराण वि, तारुण्णं पि हु विडंबणट्ठाणं। जे उण दारिद्दहया, अनीइमंताण ताणं तु ॥ २९८॥
[इति विभवनयपराणामपि तारुण्यमपि खलु विडम्बनस्थानम्। ये पुर्नदारिद्र्यहता अनीतिमतां तेषां तु॥२९८॥]
१. विडम्बनास्पदमेव इति वृत्तौ ।