________________
भवभावना- २९४
[वरवृषभोन्नतस्कन्धाः चतुरङ्गुलकम्बुग्रीवाकलिताश्च। शार्दूलहनवो बिम्बीफलाधराः शशिसमकपोलाः॥२९०॥] [मू] कुंददलधवलदसणा, विहगाहिवचंचुसरलसमनासा। पउमदलदीहनयणा, अणंगधणुकुडिलभूलेहा॥२९१॥ [कुन्ददलधवलदशना विहगाधिपचञ्चुसरलसमनासिकाः। पद्मदलदीर्घनयना अनङ्गधनुःकुटिलभ्रूरेखाः॥२९१॥]
[मू] रइरमणंदोलयसरिससवण अद्धिंदुपडिमभालयला। भराहिवछत्तसिरा, कज्जलघणकसिणमिउकेसा ॥ २९२ ॥ [रतिरमणान्दोलकसदृशश्रवणा अर्धेन्दुप्रतिमभालतलाः। भरताधिपच्छत्रशिरसः कज्जलघनकृष्णमृदुकेशाः॥२९२॥]
[मू] संपुन्नससहरमुहा, पाउसगज्जंतमेहसमघोसा। सोमा ससि व्व सूरा, व सप्पहा कणयमिव रुइरा॥२९३॥ [सम्पूर्णशशधरमुखाः प्रावृड्गर्जन्मेघसमघोषाः।
सौम्याः शशिन इव सूर्या इव सप्रभाः कनकमिव रुचिराः॥२९३॥
[मू] पाणितलाइसु ससिसूरचक्कसंखाइलक्खणोवेया । वज्जरिसहसंघयणा, समचउरंसा य संठाणा॥२९४॥
[पाणितलादिषु शशिसूरचक्रशङ्खादिलक्षणोपेताः।
वज्रर्षभसंहननाः समचतुरस्राश्च संस्थानाः॥२९४॥]
८१
[अव] शोणाः = आरक्ता नखा येषु तानि च सकललक्षणलक्षितानि च कूर्मवदुन्नतानि च पदानि पादा इत्यर्थः । तैः संयुक्ता भूत्वा क्षणमात्रेणैव कुष्ठक्षयादिरोगैर्विधुरीक्रियन्ते। यथा राजतनयनृपविक्रमवत् सकलजनशोचनीयाः स्युः । नवमदशमगाथयोः सम्बन्धः–कथं भूतैः पादैः? इत्याह-रक्तोत्पलपत्रवत् कोमलानि तलानि येषु ते तथा, तैः सुश्लिष्टौ गूढौ गुल्मौ चरणमणिबन्धौ येषां ते तथा, एणी तस्या जङ्घा येषां ते, गजेन्द्रस्य हस्तः= करस्तद्वद् वृत्तावनुपूर्वीहीना ऊरू येषां ते, सुरसलिला सुरसरिद् गङ्गेत्यर्थः तस्या जलभ्रमणरूपः सुरसलिलावर्तवन्नाभिर्येषां ते, वरम् = रूपलक्षणसम्पन्नतया प्रधानं वज्रवदिन्द्रायुधवद् वलितं = सङ्क्षिप्तं मध्यं येषां ते तथोन्नताः कुक्षयः, तथा श्लिष्टं सुसङ्गतं मीनस्येवोदरं येषां ते, कनकशिलावद्विस्तीर्णं वक्षो येषां ते, पुरस्य = नगरस्य गोपुरं = प्रतोलीद्वारं तत्र योऽसौ परिघोऽर्गलास्तद्वत् भुजदण्डो येषां ते,