________________
४४
भवभावना-१६३
[म] एसो मह पुव्ववेरि, त्ति नियमणे अलियमवि विगप्पेउं। अवरोप्परं पि घायंति नारया पहरणाईहिं॥१६३॥
[एष मम पूर्ववैरीति निजमनसि अलीकमपि विकल्प्य।
परस्परमपि घ्नन्ति नारकाः प्रहरणादिभिः॥१६३॥] [मू] सीओसिणाइ वियणा, भणिया अन्ना वि दसविहा समए। खेत्ताणुभावजणिया, इय तिविहा वेयणा नरए॥१६४॥
शीतोष्णादिका वेदना भणिता अन्या अपि दशविधा समये।
क्षेत्रानुभावजनिता इति त्रिविधा वेदना नरके॥१६४॥] । [अव] क्षेत्रानुभावजनितशीतोष्णादिका वेदना दशविधा वेदना समये भणिता = व्याख्याता प्रज्ञप्त्यादिलक्षणे, तथा च तत्सूत्रम्
“नेरइआ णं भंते! कतिविहं वेअणं पच्चणुभवमाणा विहरंति? गोअमा! दसविहं तं सीअं, उसिणं, खुह, पिवास, कंडं, परज्झ, जर, दाह, भयं, सोगं "। (भगवती शतक-७ उद्देश-१० सूत्र-१६२)
तत्र शीतमौष्ण्यं च प्रागेव व्याख्यातम्।(१-२) क्षुत्पुनस्तेषां सदाव्यवस्थिता सा स्यात् या समस्तजगद्धान्यभोजने च न निवर्तते। न च तेषां कावलिक आहारो भवति, केवलं ते तथा बुभुक्षिता आकाशादाहारद्रव्याणि गृह्णन्ति। तानि च पापोदयेनाशुचेरनन्तगुणमहाविशूचिकाजनकानि च ग्रहणमागच्छन्ति, ततस्तैः अत्रत्यमढविशूचिकातोऽनन्तगुणदुःखा विशूचिका भवति। ततस्तद्दुःखमन्तर्मुहूर्त-मनुभूय तदन्ते पुनस्तादृशाहारग्रहणं, पुनस्तथाविधमेव दुःखम्। पुनरन्तर्मुहूर्तात् तद्ग्रहणमित्येवमाहारोऽपि वराकाणां सततमनन्तदुःखहेतुः(३)। पिपासा तु सा काचिद् भवति यासत्कल्पनया निःशेषजलधिजलपानेऽपि न व्यावर्त्तते(४)। कण्डस्तु वपुषि तेषां सा निरन्तरमुपजायते या तीक्ष्णक्षुरिकोत्कीर्तितानामपि न विश्राम्यति(५)। पारवश्यं(६)। ज्वरस्त्वत्रत्यमाहेन्द्रज्वरादनन्तगुणस्तत्रामरणान्तं कदापि न विरमति(७)। दाहोऽप्यनन्तगुण एव(८)। एवं भयशोकौ तु सदापि(९-१०)।
तदेवं त्रिविधामपि वेदना प्रतिपाद्योपसंहरन्नाह
१. नैरयिकाः खलु भगवन् ! कतिविधां वेदनां प्रत्यनुभवमानाः विहरन्ति? गौतम! दशविधां तद्यथा-शीतम् उष्णं क्षुधां पिपासां कण्डूं पारवश्यं जरां दाहं भयं शोकम्।