________________
४२
भवभावना - १५५
[मू] अगणिवरिसं कुणंते, मेहे वेउव्वियम्मि नेरइया । सुरकयपव्वयगुहमणुसरंति निज्जलियसव्वंगा ॥१५५॥ [अग्निवर्षां कुर्वाणे मेघे विकुर्विते नैरयिकाः। सुरकृतपर्वतगुफामनुसरन्ति निर्ज्वलितसर्वाङ्गाः॥१५५॥]
[अव इदमुक्तं भवति परमाधार्मिका नारकाणामुपरि निरन्तरं वज्राग्निकणवृष्टिं कुर्वन्तमग्निं वैक्रियं कुर्वन्ति। तद्दाहज्वलितसर्वाङ्गानां तेषां वैक्रियपर्वतं कृत्वा दर्शयन्ति। ततो नारका अग्निवृष्टिप्रतिकारार्थं तद्गुहामनुसरन्ति॥१५५॥ [मू] तत्थ वि पडंतपव्वयसिलासमूहेण दलियसव्वंगा। अइकरुणं कंदंता, पप्पडपिट्टं व कीरंति ॥ १५६॥ [तत्रापि पतत्पर्वतशिलासमूहेन दलितसर्वाङ्गाः।
अतिकरुणं क्रन्दन्तः पर्पटपिष्टमिव क्रियन्ते॥१५६॥]
[अव] सुगमा॥१५६॥
यैश्च पूर्वभवे करभादितिरश्चामतिभारः क्षिप्तस्तेषां यत्कुर्वन्ति तदाह[मू] तिरियाणऽड्भारारोवणाई सुमराविऊण खंधेसु । चडिऊण सुरा तेसिं, भरेण भंजंति अंगाई॥१५७॥ [तिरश्चामतिभारारोपणादि स्मारयित्वा स्कन्धेषु ।
आरुह्य असुरास्तेषां भारेण भञ्जन्ति अङ्गानि ॥ १५७॥]
[मू] जेसिं च अइसएणं, गिद्धी सद्दाइएसु विसएसु । आसि इहं ताणं पि हु, विवागमेयं पयासंति॥१५८॥ [येषां च अतिशयेन गृद्धिः शब्दादिकेषु विषयेषु ।
आसीदिह तेषामपि खलु विपाकमेतं प्रकाशयन्ति ॥ १५८॥
[अव] येषां मधुरगीतपरयुवत्याद्यनुकूलमन्मनभाषितादिशब्देषु पूर्वं गृद्धिरिहासीत् तेषां श्रवणेषु तां स्मारयित्वोत्कालिततप्ततैलादीनि क्षिपन्ति। येषां तु परयुवत्यादिरूपविषये वदननयनाधरपल्लवकटाक्षक्षेप-प्रेक्षितकक्षावक्षोजनाभिमण्डलत्रिवलीतरङ्गितोदरकाञ्चीपदोरुस्तम्भाद्यवलोकने गृद्धिरतिशयेनासीत् तेषां दृष्टेर्महासन्तापकारीणि परमोद्वेगजनकानि सर्वथा स्फोटनस्वरूपविघातहेतुभूतानि रूपाणि विस्फुर्जत्स्फुलिङ्ग-मालाज्वालाकरालानि तप्तताम्रमयपुत्तलिकादीनि दर्शयन्ति
॥१५८॥